Original

विस्फार्यमाणस्य ततो भुजाभ्यां भूतानि भर्त्रा धनुर् अन्तकस्य ।भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं क्रुद्धस्य जिह्वाम् इव तक्षकस्य ॥

Segmented

विस्फार्यमाणस्य ततो भुजाभ्याम् भूतानि भर्त्रा धनुः अन्तकस्य भिन्न-आकृतिम् ज्याम् ददृशुः स्फुरन्तीम् क्रुद्धस्य जिह्वाम् इव तक्षकस्य

Analysis

Word Lemma Parse
विस्फार्यमाणस्य विस्फारय् pos=va,g=m,c=6,n=s,f=part
ततो ततस् pos=i
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
भूतानि भूत pos=n,g=n,c=1,n=p
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
अन्तकस्य अन्तक pos=n,g=m,c=6,n=s
भिन्न भिद् pos=va,comp=y,f=part
आकृतिम् आकृति pos=n,g=f,c=2,n=s
ज्याम् ज्या pos=n,g=f,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
स्फुरन्तीम् स्फुर् pos=va,g=f,c=2,n=s,f=part
क्रुद्धस्य क्रुध् pos=va,g=m,c=6,n=s,f=part
जिह्वाम् जिह्वा pos=n,g=f,c=2,n=s
इव इव pos=i
तक्षकस्य तक्षक pos=n,g=m,c=6,n=s