Original

क्षोभेण तेनाथ गणाधिपानां भेदं ययव् आकृतिर् ईश्वरस्य ।तरङ्गकम्पेन महाह्रदानां छायामयस्येव दिनस्य कर्तुः ॥

Segmented

क्षोभेण तेन अथ गण-अधिपानाम् भेदम् ययाव् आकृतिः ईश्वरस्य तरङ्ग-कम्पेन महा-ह्रदानाम् छाया-मयस्य इव दिनस्य कर्तुः

Analysis

Word Lemma Parse
क्षोभेण क्षोभ pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
अथ अथ pos=i
गण गण pos=n,comp=y
अधिपानाम् अधिप pos=n,g=m,c=6,n=p
भेदम् भेद pos=n,g=m,c=2,n=s
ययाव् या pos=v,p=3,n=s,l=lit
आकृतिः आकृति pos=n,g=f,c=1,n=s
ईश्वरस्य ईश्वर pos=n,g=m,c=6,n=s
तरङ्ग तरंग pos=n,comp=y
कम्पेन कम्प pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
ह्रदानाम् ह्रद pos=n,g=m,c=6,n=p
छाया छाया pos=n,comp=y
मयस्य मय pos=a,g=n,c=6,n=s
इव इव pos=i
दिनस्य दिन pos=n,g=n,c=6,n=s
कर्तुः कर्तृ pos=n,g=m,c=6,n=s