Original

वितन्वतस् तस्य शरान्धकारं त्रस्तानि सैन्यानि रवं निशेमुः ।प्रवर्षतः संततवेपथूनि क्षपाघनस्येव गवां कुलानि ॥

Segmented

वितन्वतस् तस्य शर-अन्धकारम् त्रस्तानि सैन्यानि रवम् निशेमुः प्रवर्षतः संतत-वेपथु क्षपा-घनस्य इव गवाम् कुलानि

Analysis

Word Lemma Parse
वितन्वतस् वितन् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
शर शर pos=n,comp=y
अन्धकारम् अन्धकार pos=n,g=m,c=2,n=s
त्रस्तानि त्रस् pos=va,g=n,c=1,n=p,f=part
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
रवम् रव pos=n,g=m,c=2,n=s
निशेमुः निशम् pos=v,p=3,n=p,l=lit
प्रवर्षतः प्रवृष् pos=va,g=m,c=6,n=s,f=part
संतत संतत pos=a,comp=y
वेपथु वेपथु pos=n,g=n,c=1,n=p
क्षपा क्षपा pos=n,comp=y
घनस्य घन pos=n,g=m,c=6,n=s
इव इव pos=i
गवाम् गो pos=n,g=,c=6,n=p
कुलानि कुल pos=n,g=n,c=1,n=p