Original

मुहुश् चलत्पल्लवलोहिनीभिर् उच्चैः शिखाभिः शिखिनो ऽवलीढाः ।तलेषु मुक्ताविशदा बभूवुः सान्द्राञ्ज्जनश्यामरुचः पयोदाः ॥

Segmented

मुहुः चलत्-पल्लव-लोहिनीभिः उच्चैः शिखाभिः शिखिनो ऽवलीढाः तलेषु मुक्ता-विशदाः बभूवुः सान्द्र-अञ्जन-श्याम-रुचः पयोदाः

Analysis

Word Lemma Parse
मुहुः मुहुर् pos=i
चलत् चल् pos=va,comp=y,f=part
पल्लव पल्लव pos=n,comp=y
लोहिनीभिः लोहित pos=a,g=f,c=3,n=p
उच्चैः उच्चैस् pos=i
शिखाभिः शिखा pos=n,g=f,c=3,n=p
शिखिनो शिखिन् pos=a,g=m,c=1,n=p
ऽवलीढाः अवलिह् pos=va,g=m,c=1,n=p,f=part
तलेषु तल pos=n,g=n,c=7,n=p
मुक्ता मुक्ता pos=n,comp=y
विशदाः विशद pos=a,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
सान्द्र सान्द्र pos=a,comp=y
अञ्जन अञ्जन pos=n,comp=y
श्याम श्याम pos=a,comp=y
रुचः रुच् pos=n,g=m,c=1,n=p
पयोदाः पयोद pos=n,g=m,c=1,n=p