Original

प्रतप्तचामीकरभासुरेण दिशः प्रकाशेन पिशङ्गयन्त्यः ।निश्चक्रमुः प्राणहरेक्षणानां ज्वाला महोल्का इव लोचनेभ्यः ॥

Segmented

प्रतप्-चामीकर-भासुरेन दिशः प्रकाशेन पिशङ्गयन्त्यः निश्चक्रमुः प्राण-हर-ईक्षणानाम् ज्वाला महा-उल्का इव लोचनेभ्यः

Analysis

Word Lemma Parse
प्रतप् प्रतप् pos=va,comp=y,f=part
चामीकर चामीकर pos=n,comp=y
भासुरेन भासुर pos=a,g=m,c=3,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
पिशङ्गयन्त्यः पिशङ्गय् pos=va,g=f,c=1,n=p,f=part
निश्चक्रमुः निष्क्रम् pos=v,p=3,n=p,l=lit
प्राण प्राण pos=n,comp=y
हर हर pos=a,comp=y
ईक्षणानाम् ईक्षण pos=n,g=m,c=6,n=p
ज्वाला ज्वाला pos=n,g=f,c=1,n=p
महा महत् pos=a,comp=y
उल्का उल्का pos=n,g=m,c=1,n=p
इव इव pos=i
लोचनेभ्यः लोचन pos=n,g=n,c=5,n=p