Original

हृता गुणैर् अस्य भयेन वा मुनेस् तिरोहिताः स्वित् प्रहरन्ति देवताः ।कथं न्व् अमी संततम् अस्य सायका भवन्त्य् अनेके जलधेर् इवोर्मयः ॥

Segmented

हृता गुणैः अस्य भयेन वा मुनेस् तिरोहिताः स्वित् प्रहरन्ति देवताः कथम् न्व् अमी संततम् अस्य सायका भवन्त्य् अनेके जलधेः इव ऊर्मयः

Analysis

Word Lemma Parse
हृता हृ pos=va,g=f,c=1,n=p,f=part
गुणैः गुण pos=n,g=m,c=3,n=p
अस्य इदम् pos=n,g=m,c=6,n=s
भयेन भय pos=n,g=n,c=3,n=s
वा वा pos=i
मुनेस् मुनि pos=n,g=m,c=6,n=s
तिरोहिताः तिरोधा pos=va,g=f,c=1,n=p,f=part
स्वित् स्विद् pos=i
प्रहरन्ति प्रहृ pos=v,p=3,n=p,l=lat
देवताः देवता pos=n,g=f,c=1,n=p
कथम् कथम् pos=i
न्व् नु pos=i
अमी अदस् pos=n,g=m,c=1,n=p
संततम् संततम् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सायका सायक pos=n,g=m,c=1,n=p
भवन्त्य् भू pos=v,p=3,n=p,l=lat
अनेके अनेक pos=a,g=m,c=1,n=p
जलधेः जलधि pos=n,g=m,c=6,n=s
इव इव pos=i
ऊर्मयः ऊर्मि pos=n,g=m,c=1,n=p