Original

गभीररन्ध्रेषु भृशं महीभृतः प्रतिस्वनैर् उन्नमितेन सानुषु ।धनुर्निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुर् दिशः ॥

Segmented

गभीर-रन्ध्रेषु भृशम् महीभृतः प्रतिस्वनैः उन्नमितेन सानुषु धनुः-निनादेन जवाद् उपेयुषा विभिद्यमाना इव दध्वनुः दिशः

Analysis

Word Lemma Parse
गभीर गभीर pos=a,comp=y
रन्ध्रेषु रन्ध्र pos=n,g=n,c=7,n=p
भृशम् भृशम् pos=i
महीभृतः महीभृत् pos=n,g=m,c=6,n=s
प्रतिस्वनैः प्रतिस्वन pos=n,g=m,c=3,n=p
उन्नमितेन उन्नमय् pos=va,g=m,c=3,n=s,f=part
सानुषु सानु pos=n,g=m,c=7,n=p
धनुः धनुस् pos=n,comp=y
निनादेन निनाद pos=n,g=m,c=3,n=s
जवाद् जव pos=n,g=m,c=5,n=s
उपेयुषा उपे pos=va,g=m,c=3,n=s,f=part
विभिद्यमाना विभिद् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
दध्वनुः ध्वन् pos=v,p=3,n=p,l=lit
दिशः दिश् pos=n,g=f,c=1,n=p