Original

उपेयुषीं बिभ्रतम् अन्तकद्युतिं वधाद् अदूरे पतितस्य दंष्ट्रिणः ।पुरः समावेशितसत्पशुं द्विजैः पतिं पशूनाम् इव हूतम् अध्वरे ॥

Segmented

उपेयुषीम् बिभ्रतम् अन्तक-द्युतिम् वधाद् अदूरे पतितस्य दंष्ट्रिणः पुरः समावेशय्-सत्-पशुम् द्विजैः पतिम् पशूनाम् इव हूतम् अध्वरे

Analysis

Word Lemma Parse
उपेयुषीम् उपे pos=va,g=f,c=2,n=s,f=part
बिभ्रतम् भृ pos=va,g=m,c=2,n=s,f=part
अन्तक अन्तक pos=n,comp=y
द्युतिम् द्युति pos=n,g=f,c=2,n=s
वधाद् वध pos=n,g=m,c=5,n=s
अदूरे अदूर pos=n,g=n,c=7,n=s
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=6,n=s
पुरः पुरस् pos=i
समावेशय् समावेशय् pos=va,comp=y,f=part
सत् सत् pos=a,comp=y
पशुम् पशु pos=n,g=m,c=2,n=s
द्विजैः द्विज pos=n,g=m,c=3,n=p
पतिम् पति pos=n,g=m,c=2,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p
इव इव pos=i
हूतम् ह्वा pos=va,g=m,c=2,n=s,f=part
अध्वरे अध्वर pos=n,g=m,c=7,n=s