Original

मया मृगान् हन्तुर् अनेन हेतुना विरुद्धम् आक्षेपवचस् तितिक्षितम् ।शरार्थम् एष्यत्य् अथ लप्स्यते गतिं शिरोमणिं दृष्टिविषाज् जिघृक्षतः ॥

Segmented

मया मृगान् हन्तुः अनेन हेतुना विरुद्धम् आक्षेप-वचः तितिक्षितम् शर-अर्थम् एष्यत्य् अथ लप्स्यते गतिम् शिरोमणिम् दृष्टिविषाज् जिघृक्षतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
हन्तुः हन्तृ pos=a,g=m,c=6,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
विरुद्धम् विरुध् pos=va,g=n,c=1,n=s,f=part
आक्षेप आक्षेप pos=n,comp=y
वचः वचस् pos=n,g=n,c=1,n=s
तितिक्षितम् तितिक्ष् pos=va,g=n,c=1,n=s,f=part
शर शर pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एष्यत्य् pos=v,p=3,n=s,l=lrt
अथ अथ pos=i
लप्स्यते लभ् pos=v,p=3,n=s,l=lrt
गतिम् गति pos=n,g=f,c=2,n=s
शिरोमणिम् शिरोमणि pos=n,g=m,c=2,n=s
दृष्टिविषाज् दृष्टिविष pos=n,g=m,c=5,n=s
जिघृक्षतः जिघृक्षय् pos=va,g=m,c=5,n=s,f=part