Original

यदा विगृह्णाति हतं तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः ।स्थितिं समीक्ष्योभयथा परीक्षकः करोत्य् अवज्ञोपहतं पृथग्जनम् ॥

Segmented

यदा विगृह्णाति हतम् तदा यशः करोति मैत्रीम् अथ दूषिता गुणाः स्थितिम् समीक्ष्य उभयथा परीक्षकः करोत्य् अवज्ञा-उपहतम् पृथग्जनम्

Analysis

Word Lemma Parse
यदा यदा pos=i
विगृह्णाति विग्रह् pos=v,p=3,n=s,l=lat
हतम् हन् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
यशः यशस् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
मैत्रीम् मैत्री pos=n,g=f,c=2,n=s
अथ अथ pos=i
दूषिता दूषय् pos=va,g=m,c=1,n=p,f=part
गुणाः गुण pos=n,g=m,c=1,n=p
स्थितिम् स्थिति pos=n,g=f,c=2,n=s
समीक्ष्य समीक्ष् pos=vi
उभयथा उभयथा pos=i
परीक्षकः परीक्षक pos=a,g=m,c=1,n=s
करोत्य् कृ pos=v,p=3,n=s,l=lat
अवज्ञा अवज्ञा pos=n,comp=y
उपहतम् उपहन् pos=va,g=m,c=2,n=s,f=part
पृथग्जनम् पृथग्जन pos=n,g=m,c=2,n=s