Original

वाजिभूमिर् इभराजकाननं सन्ति रत्ननिचयाश् च भूरिशः ।काञ्चनेन किम् इवास्य पत्त्रिणा केवलं न सहते विलङ्घनम् ॥

Segmented

वाजि-भूमिः इभ-राज-काननम् सन्ति रत्न-निचयाः च भूरिशः काञ्चनेन किम् इव अस्य पत्त्रिणा केवलम् न सहते विलङ्घनम्

Analysis

Word Lemma Parse
वाजि वाजिन् pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
इभ इभ pos=n,comp=y
राज राजन् pos=n,comp=y
काननम् कानन pos=n,g=n,c=1,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
रत्न रत्न pos=n,comp=y
निचयाः निचय pos=n,g=m,c=1,n=p
pos=i
भूरिशः भूरिशस् pos=i
काञ्चनेन काञ्चन pos=a,g=m,c=3,n=s
किम् किम् pos=i
इव इव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पत्त्रिणा पत्त्रिन् pos=n,g=m,c=3,n=s
केवलम् केवलम् pos=i
pos=i
सहते सह् pos=v,p=3,n=s,l=lat
विलङ्घनम् विलङ्घन pos=n,g=n,c=2,n=s