Original

नयनाद् इव शूलिनः प्रवृत्तैर् मनसो ऽप्य् आशुतरं यतः पिशङ्गैः ।विदधे विलसत्तडिल्लताभैः किरणैर् व्योमनि मार्गणस्य मार्गः ॥

Segmented

नयनाद् इव शूलिनः प्रवृत्तैः मनसो ऽप्य् आशुतरम् यतः पिशङ्गैः विदधे विलसत्-तडित्-लता-आभैः किरणैः व्योमनि मार्गणस्य मार्गः

Analysis

Word Lemma Parse
नयनाद् नयन pos=n,g=n,c=5,n=s
इव इव pos=i
शूलिनः शूलिन् pos=n,g=m,c=6,n=s
प्रवृत्तैः प्रवृत् pos=va,g=m,c=3,n=p,f=part
मनसो मनस् pos=n,g=n,c=6,n=s
ऽप्य् अपि pos=i
आशुतरम् आशुतर pos=a,g=n,c=2,n=s
यतः यतस् pos=i
पिशङ्गैः पिशङ्ग pos=a,g=m,c=3,n=p
विदधे विधा pos=v,p=3,n=s,l=lit
विलसत् विलस् pos=va,comp=y,f=part
तडित् तडित् pos=n,comp=y
लता लता pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
किरणैः किरण pos=n,g=m,c=3,n=p
व्योमनि व्योमन् pos=n,g=m,c=7,n=s
मार्गणस्य मार्गण pos=n,g=m,c=6,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s