Original

सुरकृत्यम् एतद् अवगम्य निपुणम् इति मूकदानवः ।हन्तुम् अभिपतति पाण्डुसुतं त्वरया तद् अत्र सह गम्यतां मया ॥

Segmented

सुर-कृत्यम् एतद् अवगम्य निपुणम् इति मूक-दानवः हन्तुम् अभिपतति पाण्डु-सुतम् त्वरया तद् अत्र सह गम्यताम् मया

Analysis

Word Lemma Parse
सुर सुर pos=n,comp=y
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अवगम्य अवगम् pos=vi
निपुणम् निपुण pos=a,g=n,c=1,n=s
इति इति pos=i
मूक मूक pos=a,comp=y
दानवः दानव pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
अभिपतति अभिपत् pos=v,p=3,n=s,l=lat
पाण्डु पाण्डु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
त्वरया त्वरा pos=n,g=f,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
सह सह pos=i
गम्यताम् गम् pos=v,p=3,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s