Original

जीयन्तां दुर्जया देहे रिपवश् चक्षुरादयः ।जितेषु ननु लोको ऽयं तेषु कृत्स्नस् त्वया जितः ॥

Segmented

जीयन्ताम् दुर्जया देहे रिपवः चक्षुः-आदयः जितेषु ननु लोको ऽयम् तेषु कृत्स्नस् त्वया जितः

Analysis

Word Lemma Parse
जीयन्ताम् जि pos=v,p=3,n=p,l=lot
दुर्जया दुर्जय pos=a,g=m,c=1,n=p
देहे देह pos=n,g=n,c=7,n=s
रिपवः रिपु pos=n,g=m,c=1,n=p
चक्षुः चक्षुस् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
जितेषु जि pos=va,g=m,c=7,n=p,f=part
ननु ननु pos=i
लोको लोक pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=m,c=7,n=p
कृत्स्नस् कृत्स्न pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part