Original

कथम् इव तव संमतिर् भवित्री समम् ऋतुभिर् मुनिनावधीरितस्य ।इति विरचितमल्लिकाविकासः स्मयत इव स्म मधुं निदाघकालः ॥

Segmented

कथम् इव तव संमतिः भवित्री समम् ऋतुभिः मुनिना अवधीरितस्य इति विरचित-मल्लिका-विकासः स्मयत इव स्म मधुम् निदाघ-कालः

Analysis

Word Lemma Parse
कथम् कथम् pos=i
इव इव pos=i
तव त्वद् pos=n,g=,c=6,n=s
संमतिः सम्मति pos=n,g=f,c=1,n=s
भवित्री भवितृ pos=a,g=f,c=1,n=s
समम् समम् pos=i
ऋतुभिः ऋतु pos=n,g=m,c=3,n=p
मुनिना मुनि pos=n,g=m,c=3,n=s
अवधीरितस्य अवधीरित pos=a,g=m,c=6,n=s
इति इति pos=i
विरचित विरचय् pos=va,comp=y,f=part
मल्लिका मल्लिका pos=n,comp=y
विकासः विकास pos=n,g=m,c=1,n=s
स्मयत स्मि pos=va,g=m,c=6,n=s,f=part
इव इव pos=i
स्म स्म pos=i
मधुम् मधु pos=n,g=m,c=2,n=s
निदाघ निदाघ pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s