Original

चिरनियमकृशो ऽपि शैलसारः शमनिरतो ऽपि दुरासदः प्रकृत्या ।ससचिव इव निर्जने ऽपि तिष्ठन् मुनिर् अपि तुल्यरुचिस् त्रिलोकभर्तुः ॥

Segmented

चिर-नियम-कृशः ऽपि शैल-सारः शम-निरतः ऽपि दुरासदः प्रकृत्या स सचिवः इव निर्जने ऽपि तिष्ठन् मुनिः अपि तुल्य-रुचिः त्रिलोक-भर्तुः

Analysis

Word Lemma Parse
चिर चिर pos=a,comp=y
नियम नियम pos=n,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
शैल शैल pos=n,comp=y
सारः सार pos=n,g=m,c=1,n=s
शम शम pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
दुरासदः दुरासद pos=a,g=m,c=1,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
सचिवः सचिव pos=n,g=m,c=1,n=s
इव इव pos=i
निर्जने निर्जन pos=n,g=n,c=7,n=s
ऽपि अपि pos=i
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
मुनिः मुनि pos=n,g=m,c=1,n=s
अपि अपि pos=i
तुल्य तुल्य pos=a,comp=y
रुचिः रुचि pos=n,g=m,c=1,n=s
त्रिलोक त्रिलोक pos=n,comp=y
भर्तुः भर्तृ pos=n,g=m,c=6,n=s