Original

यमनियमकृशीकृतस्थिराङ्गः परिददृशे विधृतायुधः स ताभिः ।अनुपमशमदीप्ततागरीयान् कृतपदपङ्क्तिर् अथर्वणेव वेदः ॥

Segmented

यम-नियम-कृशीकृत-स्थिर-अङ्गः परिददृशे विधृ-आयुधः स ताभिः अनुपम-शम-दीप्त-ता-गरीयान् कृत-पद-पङ्क्तिः अथर्वणा इव वेदः

Analysis

Word Lemma Parse
यम यम pos=n,comp=y
नियम नियम pos=n,comp=y
कृशीकृत कृशीकृत pos=a,comp=y
स्थिर स्थिर pos=a,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
परिददृशे परिदृश् pos=v,p=3,n=s,l=lit
विधृ विधृ pos=va,comp=y,f=part
आयुधः आयुध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ताभिः तद् pos=n,g=f,c=3,n=p
अनुपम अनुपम pos=a,comp=y
शम शम pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
ता ता pos=n,comp=y
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
पद पद pos=n,comp=y
पङ्क्तिः पङ्क्ति pos=n,g=m,c=1,n=s
अथर्वणा अथर्वन् pos=n,g=m,c=3,n=s
इव इव pos=i
वेदः वेद pos=n,g=m,c=1,n=s