Original

तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः ।समुन्नयन् भूतिम् अनार्यसंगमाद् वरं विरोधो ऽपि समं महात्मभिः ॥

Segmented

तथा अपि जिह्मः स भवत्-जिगीषया तनोति शुभ्रम् गुण-संपदा यशः समुन्नयन् भूतिम् अनार्य-संगमात् वरम् विरोधो ऽपि समम् महात्मभिः

Analysis

Word Lemma Parse
तथा तथा pos=i
अपि अपि pos=i
जिह्मः जिह्म pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भवत् भवत् pos=a,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s
तनोति तन् pos=v,p=3,n=s,l=lat
शुभ्रम् शुभ्र pos=a,g=n,c=2,n=s
गुण गुण pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
यशः यशस् pos=n,g=n,c=2,n=s
समुन्नयन् समुन्नी pos=va,g=m,c=1,n=s,f=part
भूतिम् भूति pos=n,g=f,c=2,n=s
अनार्य अनार्य pos=a,comp=y
संगमात् संगम pos=n,g=m,c=5,n=s
वरम् वर pos=a,g=n,c=1,n=s
विरोधो विरोध pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समम् सम pos=n,g=n,c=1,n=s
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p