Original

स किंसखा साधु न शास्ति यो ऽधिपं हितान् न यः संशृणुते स किंप्रभुः ।सदानुकूलेषु हि कुर्वते रतिं नृपेष्व् अमात्येषु च सर्वसम्पदः ॥

Segmented

स किंसखा साधु न शास्ति यो ऽधिपम् हितान् न यः संशृणुते स किंप्रभुः सदा अनुकूलेषु हि कुर्वते रतिम् नृपेष्व् अमात्येषु च सर्व-सम्पदः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किंसखा किंसखन् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
pos=i
शास्ति शास् pos=v,p=3,n=s,l=lat
यो यद् pos=n,g=m,c=1,n=s
ऽधिपम् अधिप pos=n,g=m,c=2,n=s
हितान् हित pos=a,g=m,c=2,n=p
pos=i
यः यद् pos=n,g=m,c=1,n=s
संशृणुते संश्रु pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
किंप्रभुः किंप्रभु pos=n,g=m,c=1,n=s
सदा सदा pos=i
अनुकूलेषु अनुकूल pos=a,g=m,c=7,n=p
हि हि pos=i
कुर्वते कृ pos=v,p=3,n=p,l=lat
रतिम् रति pos=n,g=f,c=2,n=s
नृपेष्व् नृप pos=n,g=m,c=7,n=p
अमात्येषु अमात्य pos=n,g=m,c=7,n=p
pos=i
सर्व सर्व pos=n,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p