Original

सुखेन लभ्या दधतः कृषीवलैर् अकृष्टपच्या इव सस्यसम्पदः ।वितन्वति क्षेमम् अदेवमातृकाश् चिराय तस्मिन् कुरवश् चकासति ॥

Segmented

सुखेन लभ्या दधतः कृषीवलैः अकृष्टपच्या इव सस्य-सम्पदः वितन्वति क्षेमम् अ देव-मातृकाः चिराय तस्मिन् कुरवः चकासति

Analysis

Word Lemma Parse
सुखेन सुख pos=n,g=n,c=3,n=s
लभ्या लभ् pos=va,g=f,c=1,n=p,f=krtya
दधतः धा pos=va,g=m,c=6,n=s,f=part
कृषीवलैः कृषीवल pos=n,g=m,c=3,n=p
अकृष्टपच्या अकृष्टपच्य pos=a,g=f,c=1,n=p
इव इव pos=i
सस्य सस्य pos=n,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p
वितन्वति वितन् pos=v,p=3,n=p,l=lat
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
pos=i
देव देव pos=n,comp=y
मातृकाः मातृका pos=n,g=f,c=1,n=p
चिराय चिराय pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
कुरवः कुरु pos=n,g=m,c=1,n=p
चकासति चकास् pos=v,p=3,n=p,l=lat