Original

शिनीनामुत्तंसः कलितकृतवर्माप्य् उभयतःप्रणेष्यते बालव्यजनयुगलान्दोलनविधिम् ।स जानुभ्यामष्टापदभुवनमवष्टभ्य भवितागुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥ ५१ ॥

Segmented

शिलीनाम् उत्तुंसः स किल कृत-वर्म अपि उभयतस् प्रणेष्येते वाल-व्यजन-युगल-आन्दोलन-विधिम् स जानुभ्याम् अष्टापद-भुवम् अवष्टभ्य भविता गुरोः शिष्यो नूनम् पद-कमल-संवाहन-रतः

Analysis

Word Lemma Parse
शिलीनाम् शिली pos=n,g=f,c=6,n=p
उत्तुंसः उत्तुंस pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
किल किल pos=i
कृत कृ pos=va,comp=y,f=part
वर्म वर्मन् pos=n,g=n,c=2,n=s
अपि अपि pos=i
उभयतस् उभयतस् pos=i
प्रणेष्येते प्रणी pos=v,p=3,n=d,l=lrt
वाल वाल pos=n,comp=y
व्यजन व्यजन pos=n,comp=y
युगल युगल pos=n,comp=y
आन्दोलन आन्दोलन pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
जानुभ्याम् जानु pos=n,g=m,c=3,n=d
अष्टापद अष्टापद pos=n,comp=y
भुवम् भू pos=n,g=f,c=2,n=s
अवष्टभ्य अवष्टम्भ् pos=vi
भविता भवितृ pos=a,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
शिष्यो शिष्य pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
पद पद pos=n,comp=y
कमल कमल pos=n,comp=y
संवाहन संवाहन pos=n,comp=y
रतः रम् pos=va,g=m,c=1,n=s,f=part