Original

अद्यापि निर्मलशरच्छशिगौरकान्ति चेतो मुनेर् अपि हरेत् किम् उतास्मदीयम् वक्त्रं सुधामयम् अहं यदि तत् प्रपद्ये चुम्बन् पिबाम्य् अविरतं व्यधते मनो मे ॥ ४१ ॥

Segmented

अद्य अपि निर्मल-शरद्-शशि-गौर-कान्ति चेतो मुनेः अपि हरेत् किम् उत अस्मदीयम् वक्त्रम् सुधा-मयम् अहम् यदि तत् प्रपद्ये चुम्बन् पिबाम्य् अविरतम् व्यधते मनो

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
निर्मल निर्मल pos=a,comp=y
शरद् शरद् pos=n,comp=y
शशि शशिन् pos=n,comp=y
गौर गौर pos=a,comp=y
कान्ति कान्ति pos=n,g=n,c=1,n=s
चेतो चेतस् pos=n,g=n,c=2,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
अपि अपि pos=i
हरेत् हृ pos=v,p=3,n=s,l=vidhilin
किम् किम् pos=i
उत उत pos=i
अस्मदीयम् अस्मदीय pos=a,g=n,c=2,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
सुधा सुधा pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रपद्ये प्रपद् pos=v,p=1,n=s,l=lat
चुम्बन् चुम्ब् pos=va,g=m,c=1,n=s,f=part
पिबाम्य् पा pos=v,p=1,n=s,l=lat
अविरतम् अविरत pos=a,g=n,c=2,n=s
व्यधते मनस् pos=n,g=n,c=1,n=s
मनो मद् pos=n,g=,c=6,n=s