Original

अद्यापि ताम् अवहितां मनसाचलेन संचिन्तयामि युवतीं मम जीविताशाम् नान्योपभुक्तनवयौवनभारसारां जन्मान्तरे ऽपि मम सैव गतिर् यथा स्यात् ॥ ३३ ॥

Segmented

अद्य अपि ताम् अवहिताम् मनसा अचलेन संचिन्तयामि युवतीम् मम जीवित-आशाम् न अन्य-उपभुक्त-नव-यौवन-भार-साराम् जन्म-अन्तरे ऽपि मम सा एव गतिः यथा स्यात्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अवहिताम् अवधा pos=va,g=f,c=2,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
अचलेन अचल pos=a,g=n,c=3,n=s
संचिन्तयामि संचिन्तय् pos=v,p=1,n=s,l=lat
युवतीम् युवती pos=n,g=f,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
जीवित जीवित pos=n,comp=y
आशाम् आशा pos=n,g=f,c=2,n=s
pos=i
अन्य अन्य pos=n,comp=y
उपभुक्त उपभुज् pos=va,comp=y,f=part
नव नव pos=a,comp=y
यौवन यौवन pos=n,comp=y
भार भार pos=n,comp=y
साराम् सार pos=n,g=f,c=2,n=s
जन्म जन्मन् pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
ऽपि अपि pos=i
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
एव एव pos=i
गतिः गति pos=n,g=f,c=1,n=s
यथा यथा pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin