Original

अद्यापि तां गमनम् इत्य् उदितं मदीयं श्रुत्वैव भीरुहरिणीम् इव चञ्चलाक्षीम् वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीं संचिन्तयामि गुरुशोकविनम्रवक्त्राम् ॥ २८ ॥

Segmented

अद्य अपि ताम् गमनम् इत्य् उदितम् मदीयम् श्रुत्वा एव भीरु-हरिणीम् इव चञ्चल-अक्षीम् वाचः स्खलद्विगलदाश्रुजलाकुलाक्षीम् गुरु-शोक-विनम्र-वक्त्राम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
अपि अपि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
इत्य् इति pos=i
उदितम् वद् pos=va,g=n,c=2,n=s,f=part
मदीयम् मदीय pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
भीरु भीरु pos=a,comp=y
हरिणीम् हरिणी pos=n,g=f,c=2,n=s
इव इव pos=i
चञ्चल चञ्चल pos=a,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
वाचः वाच् pos=n,g=f,c=6,n=s
स्खलद्विगलदाश्रुजलाकुलाक्षीम् संचिन्तय् pos=v,p=1,n=s,l=lat
गुरु गुरु pos=a,comp=y
शोक शोक pos=n,comp=y
विनम्र विनम्र pos=a,comp=y
वक्त्राम् वक्त्र pos=n,g=f,c=2,n=s