Original

त्रस्ताः पश्यन्त्वकस्मादिह यमपुरुषाः काकगृध्राश्च घोराः ध्वान्तं ध्वस्तं समन्तात् सुखरतिजननी कस्य सौम्या प्रभेयम् इत्यूर्ध्वं प्रेक्षमाणा गगनतलगतं वज्रपाणिं ज्वलन्तं दृष्ट्वा प्रामोद्यवेगाद् व्यपगतदुरिता यांतु तेनैव सार्धम् ॥

Segmented

त्रस्ताः पश्यन्तु अकस्मात् इह यम-पुरुषाः काक-गृध्राः च घोराः ध्वान्तम् ध्वस्तम् समन्तात् सुख-रति-जनना कस्य सौम्या प्रभा इयम् इति ऊर्ध्वम् प्रेक्षमाणा गगन-तल-गतम् वज्रपाणिम् ज्वलन्तम् दृष्ट्वा प्रामोद्य-वेगात् व्यपगत-दुरिताः याम् तु तेन एव सार्धम्

Analysis

Word Lemma Parse
त्रस्ताः त्रस् pos=va,g=m,c=1,n=p,f=part
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
अकस्मात् अकस्मात् pos=i
इह इह pos=i
यम यम pos=n,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
काक काक pos=n,comp=y
गृध्राः गृध्र pos=n,g=m,c=1,n=p
pos=i
घोराः घोर pos=a,g=m,c=1,n=p
ध्वान्तम् ध्वान्त pos=n,g=n,c=1,n=s
ध्वस्तम् ध्वंस् pos=va,g=n,c=1,n=s,f=part
समन्तात् समन्तात् pos=i
सुख सुख pos=n,comp=y
रति रति pos=n,comp=y
जनना जनन pos=a,g=f,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
सौम्या सौम्य pos=a,g=f,c=1,n=s
प्रभा प्रभा pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
इति इति pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
प्रेक्षमाणा प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
गगन गगन pos=n,comp=y
तल तल pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वज्रपाणिम् वज्रपाणि pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
प्रामोद्य प्रामोद्य pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
व्यपगत व्यपगम् pos=va,comp=y,f=part
दुरिताः दुरित pos=n,g=m,c=1,n=p
याम् यद् pos=n,g=f,c=2,n=s
तु तु pos=i
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
सार्धम् सार्धम् pos=i