Original

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यतेनिद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितःसख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९८॥

Segmented

निःश्वासा वदनम् दहन्ति हृदयम् निर्मूलम् उन्मथ्यते निद्रा न इति न दृश्यते प्रिय-मुखम् रात्रिंदिवम् रुद्यते अङ्गम् शोषम् उपैति पाद-पतितः प्रेयान् तथा उपेक्षितः सख्यः कम् गुणम् आकलय्य दयिते मानम् वयम् कारिताः

Analysis

Word Lemma Parse
निःश्वासा निःश्वास pos=n,g=m,c=1,n=p
वदनम् वदन pos=n,g=n,c=2,n=s
दहन्ति दह् pos=v,p=3,n=p,l=lat
हृदयम् हृदय pos=n,g=n,c=1,n=s
निर्मूलम् निर्मूल pos=a,g=n,c=1,n=s
उन्मथ्यते उन्मथ् pos=v,p=3,n=s,l=lat
निद्रा निद्रा pos=n,g=f,c=1,n=s
pos=i
इति इति pos=i
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
प्रिय प्रिय pos=a,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
रात्रिंदिवम् रात्रिंदिव pos=n,g=n,c=2,n=s
रुद्यते रुद् pos=v,p=3,n=s,l=lat
अङ्गम् अङ्ग pos=n,g=n,c=1,n=s
शोषम् शोष pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
पाद पाद pos=n,comp=y
पतितः पत् pos=va,g=m,c=1,n=s,f=part
प्रेयान् प्रेयस् pos=a,g=m,c=1,n=s
तथा तथा pos=i
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part
सख्यः सखी pos=n,g=f,c=1,n=p
कम् pos=n,g=m,c=2,n=s
गुणम् गुण pos=n,g=m,c=2,n=s
आकलय्य आकलय् pos=vi
दयिते दयित pos=a,g=f,c=8,n=s
मानम् मान pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
कारिताः कारय् pos=va,g=f,c=1,n=p,f=part