Original

सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुनाप्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥९७॥

Segmented

सन्ति एव अत्र गृहे गृहे युवतयः ताः पृच्छ गत्वा अधुना प्रेयांसः प्रणमन्ति किम् तव पुनः दासः यथा वर्तते आत्म-द्रोहिन् दुर्जनैः प्रलपितम् कर्णे अनिशम् मा कृथाः छिन्न-स्नेह-रसाः भवन्ति पुरुषा दुःख-अनुवृत् पुनः

Analysis

Word Lemma Parse
सन्ति अस् pos=v,p=3,n=p,l=lat
एव एव pos=i
अत्र अत्र pos=i
गृहे गृह pos=n,g=n,c=7,n=s
गृहे गृह pos=n,g=n,c=7,n=s
युवतयः युवति pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=2,n=p
पृच्छ प्रच्छ् pos=v,p=2,n=s,l=lot
गत्वा गम् pos=vi
अधुना अधुना pos=i
प्रेयांसः प्रेयस् pos=a,g=m,c=1,n=p
प्रणमन्ति प्रणम् pos=v,p=3,n=p,l=lat
किम् किम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुनः पुनर् pos=i
दासः दास pos=n,g=m,c=1,n=s
यथा यथा pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
आत्म आत्मन् pos=n,comp=y
द्रोहिन् द्रोहिन् pos=a,g=f,c=8,n=s
दुर्जनैः दुर्जन pos=n,g=m,c=3,n=p
प्रलपितम् प्रलप् pos=va,g=n,c=2,n=s,f=part
कर्णे कर्ण pos=n,g=m,c=7,n=s
अनिशम् अनिशम् pos=i
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
छिन्न छिद् pos=va,comp=y,f=part
स्नेह स्नेह pos=n,comp=y
रसाः रस pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पुरुषा पुरुष pos=n,g=m,c=1,n=p
दुःख दुःख pos=n,comp=y
अनुवृत् अनुवृत् pos=va,g=m,c=1,n=p,f=krtya
पुनः पुनर् pos=i