Original

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशंतामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९३॥

Segmented

देशैः अन्तरिता शतैः च सरिताम् उर्वीभृत् काननैः यत्नेन अपि न याति लोचन-पथम् कान्ता इति जानन् अपि उद्ग्रीवः चरण-अर्ध-रुद्ध-वसुधः कृत्वा अश्रु-पूर्णाम् दृशम् ताम् आशाम् पथिकः तथा अपि किम् अपि ध्यायन् चिरम् वीक्षते

Analysis

Word Lemma Parse
देशैः देश pos=n,g=m,c=3,n=p
अन्तरिता अन्तरि pos=va,g=f,c=1,n=s,f=part
शतैः शत pos=n,g=n,c=3,n=p
pos=i
सरिताम् सरित् pos=n,g=f,c=6,n=p
उर्वीभृत् उर्वीभृत् pos=n,g=m,c=6,n=p
काननैः कानन pos=n,g=n,c=3,n=p
यत्नेन यत्न pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
याति या pos=v,p=3,n=s,l=lat
लोचन लोचन pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
कान्ता कान्ता pos=n,g=f,c=1,n=s
इति इति pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
उद्ग्रीवः उद्ग्रीव pos=a,g=m,c=1,n=s
चरण चरण pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
रुद्ध रुध् pos=va,comp=y,f=part
वसुधः वसुधा pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
अश्रु अश्रु pos=n,comp=y
पूर्णाम् पृ pos=va,g=f,c=2,n=s,f=part
दृशम् दृश् pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आशाम् आशा pos=n,g=f,c=2,n=s
पथिकः पथिक pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपि अपि pos=i
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
वीक्षते वीक्ष् pos=v,p=3,n=s,l=lat