Original

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनंरोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मयाबद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥९२॥

Segmented

भ्रू-भेदः रचितः चिरम् नयनयोः अभ्यस्तम् आमीलनम् रोद्धुम् शिक्षितम् आदरेण हसितम् मौने अभियोगः कृतः धैर्यम् कर्तुम् अपि स्थिरीकृतम् इदम् चेतः कथंचिन् मया बद्धो मान-परिग्रहे परिकरः सिद्धिः तु दैव-स्थिता

Analysis

Word Lemma Parse
भ्रू भ्रू pos=n,comp=y
भेदः भेद pos=n,g=m,c=1,n=s
रचितः रचय् pos=va,g=m,c=1,n=s,f=part
चिरम् चिरम् pos=i
नयनयोः नयन pos=n,g=n,c=6,n=d
अभ्यस्तम् अभ्यस् pos=va,g=n,c=1,n=s,f=part
आमीलनम् आमीलन pos=n,g=n,c=1,n=s
रोद्धुम् रुध् pos=vi
शिक्षितम् शिक्षय् pos=va,g=n,c=2,n=s,f=part
आदरेण आदर pos=n,g=m,c=3,n=s
हसितम् हसित pos=n,g=n,c=2,n=s
मौने मौन pos=n,g=n,c=7,n=s
अभियोगः अभियोग pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
अपि अपि pos=i
स्थिरीकृतम् स्थिरीकृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
कथंचिन् कथंचिद् pos=i
मया मद् pos=n,g=,c=3,n=s
बद्धो बन्ध् pos=va,g=m,c=1,n=s,f=part
मान मान pos=n,comp=y
परिग्रहे परिग्रह pos=n,g=m,c=7,n=s
परिकरः परिकर pos=n,g=m,c=1,n=s
सिद्धिः सिद्धि pos=n,g=f,c=1,n=s
तु तु pos=i
दैव दैव pos=n,comp=y
स्थिता स्था pos=va,g=f,c=1,n=s,f=part