Original

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठःपूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥८१॥

Segmented

दृष्टः कातर-नेत्रया चिरतरम् बद्धाञ्जलिम् याचितः पश्चात् अंशुक-पल्लवेन विधृतो निर्व्याजम् आलिङ्गितः इति आक्षिप्य यदा समस्तम् अघृणः गन्तुम् प्रवृत्तः शठः पूर्वम् प्राण-परिग्रहः दयितया मुक्तः ततस् वल्लभः

Analysis

Word Lemma Parse
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कातर कातर pos=a,comp=y
नेत्रया नेत्र pos=n,g=f,c=3,n=s
चिरतरम् चिरतर pos=a,g=n,c=2,n=s
बद्धाञ्जलिम् बद्धाञ्जलि pos=a,g=f,c=2,n=s
याचितः याच् pos=va,g=m,c=1,n=s,f=part
पश्चात् पश्चात् pos=i
अंशुक अंशुक pos=n,comp=y
पल्लवेन पल्लव pos=n,g=m,c=3,n=s
विधृतो विधृ pos=va,g=m,c=1,n=s,f=part
निर्व्याजम् निर्व्याज pos=a,g=n,c=2,n=s
आलिङ्गितः आलिङ्गय् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
आक्षिप्य आक्षिप् pos=vi
यदा यदा pos=i
समस्तम् समस्त pos=a,g=n,c=2,n=s
अघृणः अघृण pos=a,g=m,c=1,n=s
गन्तुम् गम् pos=vi
प्रवृत्तः प्रवृत् pos=va,g=m,c=1,n=s,f=part
शठः शठ pos=a,g=m,c=1,n=s
पूर्वम् पूर्वम् pos=i
प्राण प्राण pos=n,comp=y
परिग्रहः परिग्रह pos=n,g=m,c=1,n=s
दयितया दयिता pos=n,g=f,c=3,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
वल्लभः वल्लभ pos=a,g=m,c=1,n=s