Original

पुराभूदस्माकं नियतमविभिन्ना तनुरियंततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।इदानीं नाथस्त्वं वयमपि कलत्रं किमपरंमयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥६६॥

Segmented

पुरा अभूत् नः नियतम् अविभिन्ना तनुः इयम् ततो नु त्वम् प्रेयान् वयम् अपि हताशाः प्रियतमाः इदानीम् नाथः त्वम् वयम् अपि कलत्रम् किम् अपरम् मया आप्तम् प्राणानाम् कुलिश-कठिनानाम् फलम् इदम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
नः मद् pos=n,g=,c=6,n=p
नियतम् नियतम् pos=i
अविभिन्ना अविभिन्न pos=a,g=f,c=1,n=s
तनुः तनु pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ततो ततस् pos=i
नु नु pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रेयान् प्रेयस् pos=a,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
हताशाः हताश pos=a,g=f,c=1,n=p
प्रियतमाः प्रियतम pos=a,g=f,c=1,n=p
इदानीम् इदानीम् pos=i
नाथः नाथ pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
कलत्रम् कलत्र pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अपरम् अपर pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
आप्तम् आप् pos=va,g=n,c=1,n=s,f=part
प्राणानाम् प्राण pos=n,g=m,c=6,n=p
कुलिश कुलिश pos=n,comp=y
कठिनानाम् कठिन pos=a,g=m,c=6,n=p
फलम् फल pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s