Original

दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालितादैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् ।मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटंहे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥५॥

Segmented

दत्तः अस्याः प्रणयः त्वया एव भवता च इयम् चिरम् लालिता दैवाद् अद्य किल त्वम् एव कृतवान् अस्या नवम् विप्रियम् मन्युः दुःसहः एष याति उपशमम् नो सान्त्व-वादाः स्फुटम् हे निस्त्रंश विमुक्त-कण्ठ-करुणम् तावत् सखी रोदितु

Analysis

Word Lemma Parse
दत्तः दा pos=va,g=m,c=1,n=s,f=part
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रणयः प्रणय pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
भवता भवत् pos=a,g=m,c=3,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
चिरम् चिरम् pos=i
लालिता लालय् pos=va,g=f,c=1,n=s,f=part
दैवाद् दैव pos=n,g=n,c=5,n=s
अद्य अद्य pos=i
किल किल pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अस्या इदम् pos=n,g=f,c=6,n=s
नवम् नव pos=a,g=n,c=2,n=s
विप्रियम् विप्रिय pos=n,g=n,c=2,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
दुःसहः दुःसह pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
याति या pos=v,p=3,n=s,l=lat
उपशमम् उपशम pos=n,g=m,c=2,n=s
नो नो pos=i
सान्त्व सान्त्व pos=n,comp=y
वादाः वाद pos=n,g=m,c=1,n=p
स्फुटम् स्फुट pos=a,g=n,c=1,n=s
हे हे pos=i
निस्त्रंश निस्त्रंश pos=a,g=m,c=8,n=s
विमुक्त विमुच् pos=va,comp=y,f=part
कण्ठ कण्ठ pos=n,comp=y
करुणम् करुण pos=n,g=n,c=1,n=s
तावत् तावत् pos=i
सखी सखी pos=n,g=f,c=1,n=s
रोदितु रुद् pos=v,p=3,n=s,l=lot