Original

सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षितातावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुंप्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४३॥

Segmented

सा यावन्ति पदानि अलीक-वचनैः आली-जनैः शिक्षिता तावन्ति एव कृत-आगसः द्रुततरम् व्याहृत्य पत्युः पुरः प्रारब्धा पुरतो यथा मनसिजस्य आज्ञा तथा वर्तितुम् प्रेम्णो मौग्ध्य-विभूषणस्य सहजः कः अपि एष कान्तः क्रमः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
यावन्ति यावत् pos=a,g=n,c=2,n=p
पदानि पद pos=n,g=n,c=2,n=p
अलीक अलीक pos=a,comp=y
वचनैः वचन pos=n,g=n,c=3,n=p
आली आलि pos=n,comp=y
जनैः जन pos=n,g=m,c=3,n=p
शिक्षिता शिक्षय् pos=va,g=f,c=1,n=s,f=part
तावन्ति तावत् pos=a,g=n,c=2,n=p
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
आगसः आगस् pos=n,g=m,c=6,n=s
द्रुततरम् द्रुततर pos=a,g=n,c=2,n=s
व्याहृत्य व्याहृ pos=vi
पत्युः पति pos=n,g=,c=6,n=s
पुरः पुरस् pos=i
प्रारब्धा प्रारभ् pos=va,g=f,c=1,n=s,f=part
पुरतो पुरतस् pos=i
यथा यथा pos=i
मनसिजस्य मनसिज pos=n,g=m,c=6,n=s
आज्ञा आज्ञा pos=n,g=f,c=1,n=s
तथा तथा pos=i
वर्तितुम् वृत् pos=vi
प्रेम्णो प्रेमन् pos=n,g=,c=6,n=s
मौग्ध्य मौग्ध्य pos=n,comp=y
विभूषणस्य विभूषण pos=n,g=m,c=6,n=s
सहजः सहज pos=a,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
कान्तः कान्त pos=a,g=m,c=1,n=s
क्रमः क्रम pos=n,g=m,c=1,n=s