Original

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षतेकार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायतेदृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥२४॥

Segmented

भ्रू-भङ्गे रचिते अपि दृष्टिः अधिकम् स उत्कण्ठम् उद्वीक्षते कार्कश्यम् गमिते अपि चेतसि तनू-रोमाञ्चम् आलम्बते रुद्धायाम् अपि वाचि सस्मितम् इदम् दग्ध-आननम् जायते दृष्टे निर्वहणम् भविष्यति कथम् मानस्य तस्मिन् जने

Analysis

Word Lemma Parse
भ्रू भ्रू pos=n,comp=y
भङ्गे भङ्ग pos=n,g=m,c=7,n=s
रचिते रचय् pos=va,g=m,c=7,n=s,f=part
अपि अपि pos=i
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
pos=i
उत्कण्ठम् उत्कण्ठा pos=n,g=n,c=2,n=s
उद्वीक्षते उद्वीक्ष् pos=v,p=3,n=s,l=lat
कार्कश्यम् कार्कश्य pos=n,g=n,c=2,n=s
गमिते गमय् pos=va,g=n,c=7,n=s,f=part
अपि अपि pos=i
चेतसि चेतस् pos=n,g=n,c=7,n=s
तनू तनू pos=n,comp=y
रोमाञ्चम् रोमाञ्च pos=n,g=m,c=2,n=s
आलम्बते आलम्ब् pos=v,p=3,n=s,l=lat
रुद्धायाम् रुध् pos=va,g=f,c=7,n=s,f=part
अपि अपि pos=i
वाचि वाच् pos=n,g=f,c=7,n=s
सस्मितम् सस्मित pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
दग्ध दह् pos=va,comp=y,f=part
आननम् आनन pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
दृष्टे दृश् pos=va,g=m,c=7,n=s,f=part
निर्वहणम् निर्वहण pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
कथम् कथम् pos=i
मानस्य मान pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
जने जन pos=n,g=m,c=7,n=s