Original

कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदितेकठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः ।इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जनेपुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥१२॥

Segmented

कथम् अपि सखि क्रीडा-कोपात् व्रज इति मया उदिते कठिन-हृदयः त्यक्त्वा शय्याम् बलाद् गत एव सः इति सरभसम् ध्वस्त-प्रेमन् व्यपेत-घृणे जने पुनः अपि हतव्रीडम् चेतः प्रयाति करोमि किम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
अपि अपि pos=i
सखि सखी pos=n,g=f,c=8,n=s
क्रीडा क्रीडा pos=n,comp=y
कोपात् कोप pos=n,g=m,c=5,n=s
व्रज व्रज् pos=v,p=2,n=s,l=lot
इति इति pos=i
मया मद् pos=n,g=,c=3,n=s
उदिते वद् pos=va,g=n,c=7,n=s,f=part
कठिन कठिन pos=a,comp=y
हृदयः हृदय pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
शय्याम् शय्या pos=n,g=f,c=2,n=s
बलाद् बल pos=n,g=n,c=5,n=s
गत गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
इति इति pos=i
सरभसम् सरभस pos=a,g=n,c=2,n=s
ध्वस्त ध्वंस् pos=va,comp=y,f=part
प्रेमन् प्रेमन् pos=n,g=,c=7,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
घृणे घृणा pos=n,g=m,c=7,n=s
जने जन् pos=v,p=1,n=s,l=lat
पुनः पुनर् pos=i
अपि अपि pos=i
हतव्रीडम् हतव्रीड pos=a,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
प्रयाति प्रया pos=v,p=3,n=s,l=lat
करोमि कृ pos=v,p=1,n=s,l=lat
किम् pos=n,g=n,c=2,n=s