Original

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सापर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सासा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥१०५॥

Segmented

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्-वियोग-आतुरस्य हंहो चेतः प्रकृतिः अपरा न अस्ति मे का अपि सा सा सा सा सा सा जगति सकले कः अयम् अद्वैत-वादः

Analysis

Word Lemma Parse
प्रासादे प्रासाद pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
पृष्ठतः पृष्ठतस् pos=i
सा तद् pos=n,g=f,c=1,n=s
पुरः पुरस् pos=i
सा तद् pos=n,g=f,c=1,n=s
पर्यङ्के पर्यङ्क pos=n,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
पथि पथिन् pos=n,g=,c=7,n=s
पथि पथिन् pos=n,g=,c=7,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
तद् तद् pos=n,comp=y
वियोग वियोग pos=n,comp=y
आतुरस्य आतुर pos=a,g=m,c=6,n=s
हंहो हंहो pos=i
चेतः चेतस् pos=n,g=n,c=1,n=s
प्रकृतिः प्रकृति pos=n,g=f,c=1,n=s
अपरा अपर pos=n,g=f,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
का pos=n,g=f,c=1,n=s
अपि अपि pos=i
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
सकले सकल pos=a,g=n,c=7,n=s
कः pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
अद्वैत अद्वैत pos=n,comp=y
वादः वाद pos=n,g=m,c=1,n=s