This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
पक्षच्छेदत्रणासृ क्स्रुत इव दृषदो दर्शयन्प्रातरद्रे-

राताम्रस्तीव्रभानोरनभिमतनुदे स्ताद्गभस्त्युद्गमो वः ॥ ५ ॥
 

 
तीव्रभानोर्गभस्त्युद्गमः किरणोदयो वो युष्माकमनभिमतनुदे अनभिमतमनभीष्टं पापं

शत्रुर्वा तस्य नोदनं नुत् तस्यै स्ताद्भवतात् । कीदृश इव । पूर्व प्रथमं पावकेन वह्निना

कृताभ्युद्गतिरिव । अभ्युद्गमनमभ्युद्गतिः । विहितस्वागत इव । किंभूतेन पावकेन । भा-

स्वळावोद्गतेन भास्वतो ग्रावाणो भास्वद्रावाणोऽर्कोपिलाः सूर्यकान्ताभिधाना मणिविशे-

षास्तेभ्य उद्गतो भास्वद्भावोद्गतः । ते हि रविकरस्पृष्टा अग्निमुमन्ति । ओषधिशब्देनौ-

षधिस्थं तेज्ञ उच्यते । तात्स्थ्यात् । यथा गिरिर्दयते पन्थानो मुष्यन्त इति । तत्ति-

रस्कुर्वन्नभिभवन् । ओषधीनामीश ओषधीशः । तस्मिन्नोषधीनां भर्तरीन्दौ मुषितरुचि

मुषिता रुग्यस्य स तस्मिन्मुषितरुचि हतभासि शुचेव शोकेनेव प्रोषिताभा: प्रोषिता

आभा यासामोषधीनां तास्तथोक्ताः । भर्तरि हततेजसि पत्न्यः शोकेन गतवृतयो भ.
-
वन्ति । प्रातरद्वेरुदयाचलनाम्नो दृषदः शिला दर्शयन्प्रकटयन् । कथंभूता इव । पक्षच्छे-

दत्रणासृक्स्रुत इव । पक्षाणां छेदः पक्षच्छेदस्तेन व्रणास्तेषामग्रुधिरं पक्षच्छेदत्रणासक्

तत्स्रवन्तीति ताः । अङ्गरुहक्षतजस्राविणीर्यथा । यतो गभस्त्युद्गम आताम्रो लोहितो-

ऽतस्तदनुरञ्जिताः शिला एवमुत्प्रेक्ष्यन्ते । पूर्व किल पर्वता: पक्षवन्तोऽभूवंस्तेषामिन्द्र-

स्तांश्चिच्छेद ॥
 

 
शीर्णघ्राणाङ्गिघ्रिपाणीन्द्व्रणिभिरपघनैर्घर्घराव्यक्तघोषा-

न्दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन्यः ।

धर्मीशोस्तस्य वोऽन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्ते-

र्दत्तार्धाः सिद्धसंधैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥ ६ ॥

 
धर्माशोरादित्यस्य घृणयो मयूखा वो युष्माकमंहोविघातं पापापनोदं विदधतु कु-

वन्तु । शीघ्रं तत्क्षणम् । किंविशिष्टाः । दत्ताघी दत्तो विश्राणितोऽर्धो येभ्यस्ते । कैः ।

सिद्धसंघैः सिद्धा अणिमादियुक्तास्तेषां संघा वातास्तैरिति । किंभूतोऽसौ घर्माशुः । यः

पुनरपि भूयोऽपि घटयति करोति । कान् । शीर्णघ्राणाङ्गिपाणीन् । घ्राणं नासा । अङ्गी
घ्री
पादौ । पाणी हस्तौ । घ्राणं चाङ्गी च पाणी चेति समाहारद्वन्द्वः । शीणी घ्राणाङ्गि-
घ्री-
पाणयो येषां सामर्थ्यादङ्गिनां ते तथोक्तान् । तथा अपघनैरङ्गेणिभिरुपलक्षितान् । घ
घे
-
र्घ
राव्यक्तघोषान् घर्घरो जर्जरोऽव्यक्तोऽस्फुटो घोषो ध्वनिर्येषाम् । प्राणादिलुप्ततायां

कण्ठौष्ठादित्रणितायां च कारणमुपवर्णयन्नाह
-
--अघौघैः पापसमूहैर्घाघ्रातांविरतरत्र-
ग्र-
स्तान् । किं कुर्वन् । उल्लाघयनिर्व्याधोकुर्वन् । एकोऽसहाय: । रुद्रादयोऽपि सूर्यमूर्ति-

मारूढा एव नीरोगं कुर्वन्तीति संबन्ध: (भाव:) । किंभूतस्य भानोः । अन्तर्द्विगुणघ-

नघृणानिघ्ननिर्विघ्नवृत्तेः। अन्तर्मध्ये चेतसि द्विगुणा घना बहुला घृणा दया । घना चासौ
 
-