This page has been fully proofread once and needs a second look.

निष्पर्यायं प्रवृत्तास्त्रिभुवनभवनप्राङ्गणे पान्तु युष्मा-
नूष्माणं संतताध्वश्रमजमिव भृशं बिभ्रतो ब्रध्नपादाः ॥ ३ ॥
 
ब्रध्नः सूर्यस्तस्य पादा रश्मयः पान्त्ववन्तु । कान् । वो युष्मान् । किं कुर्वन्तः । अ-
म्भोरुहाणां पद्मानां गर्भेष्वभ्यन्तरेषु शिखरिषु च पर्वतेषु शिताग्रेषु तीक्ष्णप्रान्तेषु तुल्यं
समं पतन्तो गच्छन्तः । अन्यस्य हि पादा यथा हरितशाद्वलोपचितायां भूमौ निप-
तन्ति तथा न शर्करिलायां कण्ठकितायां वा । ब्रध्नस्य पुनर्मार्दवातिशययुक्तेषु पद्मगर्भेषु
तीक्ष्णशृङ्गेषु च पर्वतेषु समं पतन्ति । वासरस्य दिवसस्य प्रारम्भे मुखे तस्यैव व्युपर-
तिसमये चास्तमनकाले तथैव सदृशा एकरूपाः । त्रिभुवनं भवनप्राङ्गणमिव त्रिभुव-
नभवनप्राङ्गणं तस्मिंस्त्रैलोक्यवेश्माजिरे निष्पर्यायमविद्यमानक्रमं प्रवृत्ताः प्रसृताः । अ-
न्यस्य हि पादाश्चरणा गृहाङ्गणे पर्यायेण प्रवर्तन्ते । तस्य पुनः समकालमेव । ऊष्मा-
णमौष्ण्यं भृशं बिभ्रतोऽत्यर्थे दधतः । उत्प्रेक्षते -- संतताध्वश्रमजमिव । संततश्चासा-
वध्वा च संतताध्वा । अध्वशब्दोऽत्राधिकगमने वर्तते । तेन श्रमस्तस्माज्जातस्तमिव ।
भृशमविच्छिन्नं गाढं गमनखेदसंभवमिव । अन्यो हि यः पान्थस्तस्य पादा ऊष्माणमेव
बिभ्रति दधति ॥
 
प्रभ्रश्यत्युत्तरीयत्विषि तमसि समुद्वीक्ष्य वीतावृतीन्प्रा-
ग्जन्तूस्तन्तून्यथा यानतनु वितनुते तिग्मरोचिर्मरीचीन् ।
ते सान्द्रीभूय सद्यः क्रमविशददशाशादशालीविशालं
शश्वत्संपादयन्तोऽम्बरममलमलं मङ्गलं वो दिशन्तु ॥ ४ ॥
 
ते रश्मयो मरीचयो मङ्गलं कल्याणं वो दिशन्तु ददतु । यान्किरणांस्तिग्मरोचिस्ती-
क्ष्णदीधितिः सूर्यो वितनुते विस्तारयति । कथं यथा भवति । अतनु विस्तीर्णे यथा भ-
वति । किं कृत्वा । जन्तून्प्राणिनो वीतावृतीन्, आवरणमावृतिः, वीता गता आवृतिर्येषां
ते तान्समवलोक्य समुद्वीक्ष्य । प्राक्पूर्वे तमस्यन्धकारे प्रभ्रश्यति पतति सति । की-
दृशे। उत्तरीयस्येव त्विड् यस्य तदुत्तरीयत्विट् तस्मिन्नंशुकनिभे तिमिरे । कानिव । त-
न्तून्यथा । तन्तवः सूत्राणि यथा तान् । यथा कश्चित्तन्तुवायोऽतनुपटान्वितनुते प्रा-
णभृतो विगतवाससो दृष्ट्वा । ते सान्द्रीभूय घनतां प्राप्याम्बरं वासोऽमलं विमलमुत्पाद-
यन्ति एवं मरीचयोsपि सान्द्रीभूय सद्यस्तत्क्षणमम्बरमाकाशं शश्वत्सर्वदा विमलमुत्पा-
दयन्ति । कीदृशम् । क्रमविशददशाशादशालीविशालम् । क्रमेण पर्यायेण विशदा: परि-
पाट्या स्पष्टा दश च ता आशाश्च दशाशा दश दिश: क्रमविशदाश्च ता दशाशाश्च ता
एव दशास्तासामाली पङ्क्तिस्तया विशालं विस्तीर्णम् । तदपि वासो दशालीविशालम् ॥
 
न्यक्कुर्वन्नोषधीशे मुषितरुचि शुचेवौषधी: प्रोषिताभा
भास्वद्ग्रावोद्गतेन प्रथममिव [^१]कृताभ्युद्गतिः पावकेन ।
 
[^१]. 'यो हि यत्प्रसादेन लब्धात्मलाभः स तस्याभ्युद्गमनं करोति' इति वल्लभः.