This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
आयान्त्या तुल्यकालं कमलवनरुचेवारुणा वो विभूत्यै

भूयासुर्भासयन्तो भुवनमभिनवा भानवो भानवीयाः ॥ १ ॥
 

 
अभिनवा नूतना भानवीया भानवः सावित्रा रश्मयो वो युष्मभ्यं विभूत्यै समृद्ध्यै

भूयासुर्भवन्तु । किं कुर्वन्तः । सान्द्रश्चासौ सिन्दूररेणुश्च सान्द्रो बहल: सिन्दूररेणुः सि

न्दूररजस्तद्दधत इव । किंभूतम् । जम्भस्यारातिर्जम्भारातिः शक्रस्तस्येभो हस्ती ऐ-

रावणस्तस्य कुम्भौ मस्तकौ तयोस्तौ वा उद्भवो यस्येति विग्रहः । एतदुक्तं भवति -
-
ये स्वर्गस्थास्ते उदयरागभृतस्तानवलोक्यैरावणकुम्भस्थं सिन्दूररेणुं दधत इव मन्यन्ते ।

उदयश्चासौ गिरिश्च तस्य तटी तस्या धातवो गैरिकादयस्तेषां धाराकारो द्रवो धारा-

द्रवः प्रपातस्तस्येवोघैः प्रवाहैः समूहैरविच्छिन्नैः सिक्ता अत एव रक्ता इव । उदयगि

रिस्थानामेवं बुद्धिर्जायते तुल्यकालं समकालमायान्त्या आगच्छन्त्या पद्मखण्ड दीप्त्या

इवारुणाः । सहैव सवित्रा कमलवनानां रुगागच्छति । एवं दीप्त्या घरास्थानां प्रती-

तिर्भवति । किं कुर्वन्तो भानवः । त्रैलोक्यमुद्भासयन्तः । अभिनवत्वं तेषां दिक्करणा-

पेक्षया ॥
 

 
भक्तिप्रदाय दातुं मुकुलपुटकुटीकोटरक्रोडलीनां
 

लक्ष्मीमाक्रष्टुकामा इव कमलवनोद्धाटनं कुर्वते ये ।
[^१]कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥
 
भास्करस्य करा वो युष्माकं कल्याणं क्रियासुर्विधेयासुः । ये
कमलवनोद्घाटनं कुर्वते ये ।
कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः
 
ते
 
कल्याणं वः क्रियासुः किसलयरुचयस्ते करा भास्करस्य ॥ २ ॥
भास्करस्य करा वो युष्माकं कल्याणं क्रियासुर्विधेयासुः । ये कमलवनोद्घाटनं

कुर्वते पद्मखण्डानामुन्मीलनं विदधते । उत्प्रेक्षते - लक्ष्मीमाक्रष्टुकामा इवापक्रष्टुमनस

इव । यतो लक्ष्मीं सदैव कमलवनेषु कृतसंनिधानामाक्रष्टुमिव । किं कर्तुम् । दातुं वित-

रितुम् । कस्मै । भक्तिप्रदाय । भक्त्या प्रो नम्रो भक्तिप्रहस्तस्मै । कोदृशीं श्रियम् ।

मुकुलपुटकुटीकोटरक्रोडलीनाम् । मुकुलशब्देन कुमलमुच्यते । तस्य यः पुटः स एव

कुटी शालेव मुकुलपुटकुटी तस्याः कोटरमभ्यन्तरं तस्य क्रोडोऽवनम्रप्रदेशस्तत्र लीनां

संश्लिष्टम् । कीदृशाः करा: । कालाकारान्धकाराननपतितजगत्साध्वसध्वंसकल्याः । का-

लस्येवाकारो यस्य स कालाकारः स चासावन्धकारश्च तस्याननं मुखं तत्र पतितं य-

ज्जगत्तस्य साध्वसं भयं तस्य ध्वंसो नाशस्तत्र कल्याः पटवः समर्था एव । पुनः किल-

क्षणाः । किसलयरुचयः किसलयानामिव रुचिर्येषां तेऽभिनवाङ्कुरभासः ॥
 

 
गर्भेष्वम्भोरुहाणां शिखरिषु च शिताग्रेषु तुल्यं पतन्तः

प्रारम्भे वासरस्य व्युपरतिसमये चैकरूपास्तथैव ।
 

 
[^
.] 'कायद्भयंकरत्वाच्च कालनिभोऽन्धकारः' इति वल्लभः.