2023-02-23 18:32:27 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
महाकविश्री मयूरप्रणीतं
सूर्यशतकम् ।
श्रीत्रिभुवनपालविरचितया टीकयान्वितम् ।
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुं
रक्ताः सिक्ता इवौघैरुदयगिरितटीधातुधाराद्रवस्य ।
१. सूर्यशतकप्रणेता श्रीमयूरकविर्बाणभट्टस्य श्वशुर उजयिन्यां वृद्धभोजमहीपतेः
सभायामासीदिति मानतुङ्गाचार्यप्रणीतभक्तामराख्यस्तोत्रटीकाप्रारम्भे मेरुतुङ्गप्रणीतप्रब-
न्धचिन्तामणौ च समुपलभ्यते. प्रबन्धचिन्तामणौ बाणभट्टो मयूरस्य भगिनीपतिरा-
सीदित्युक्तमस्ति अथ च 'अहो प्रभावी वाग्देव्या यन्मातङ्गदिवाकरः । श्रीहर्षस्या-
भवत्सभ्यः समो बाणमयूरयोः ॥' इति शार्ङ्गधरपद्धत्यादिप्रसिद्धराजशेखरपद्येनापि बा-
णमयूरयोः समकालोद्भवत्वं प्रतीयते तस्मान्मयूरकविरपि ख्रिस्ताब्दीयसप्तमशतक-
पूर्वार्धसमुद्भूत इति ज्ञेयम् सूर्यशतकमपहाय मयूरप्रणीतः कोऽप्यन्यो ग्रन्थो नाद्याप्यु-
पलब्धः सूर्यशतकपद्यानि तु ध्वन्यालोककाव्यप्रकाशादिषूदाहृतानि सन्ति दृश्यन्ते
च सूर्यशतकातिरिक्ता अपि कतिपयश्लोकाः सुभाषितावल्यादिषु मयूरनाम्ना समुद्धृताः.
'दर्प कविभुजंगानां गता श्रवणगोचरम् । विषविद्येव मायूरी मायूरी वानिकृन्तति ॥'
इति मयूरप्रशंसापद्यं च सूक्तिमुक्तावलौ राजशेखरनाम्ना समुद्धृतं वर्तते सूर्यशतकस्य
काश्मीरकवल्लभदेव-मधुसूदन- त्रिभुवनपालविरचितं टोकात्रयं प्राचीनम्, यज्ञेश्वरशास्त्रि-
प्रणीता नवीना टीका च वर्तते. तत्र वल्लभदेवकृतटीकास्माभिः कश्मीरेषु षट्त्रिंशश्लो-
कपर्यन्तमासादिता. मधुसूदनकृता नोपलब्धा. अतस्त्रिभुवनपालविरचितटीकासमे
तमेतच्छतकं मुद्रयितुमारब्धम् तत्रास्मन्मुद्रणाधारभूतानि पुस्तकान्येतानि
– प्रथमं
त्रिभुवनपालकृतटीकासमेतं प्रायः शुद्धं १६८५ मिते शकाब्दे लिखितं एकोनत्रिंशत्प
त्रात्मकं मुम्बईनगरवास्तव्यश्रीपण्डितज्येष्ठाराममुकुन्दजीशर्मणां सकाशादधिगतम्; द्वि-
तीयं तादृशमेव पुस्तकं नातिशुद्धं वर्षशतद्वयप्राचीन मिवोपलक्ष्यमाणं त्रिषष्टिपत्रात्मकं
जयपुरराजगुरुकुलोद्भूतोदुम्बरभट्टश्रीकृष्णकुमार शर्मणां संग्रहात्प्राप्तम्, तत्र त्रिभुवनपा-
लस्य नाम नास्ति; तृतीयं मूलमात्रं षट्त्रिंशश्लोकपर्यन्तं वल्लभदेवकृतटीकोद्धृत टिप्पण-
समेतं नवीनं कश्मीरलिखितं पञ्चदशपत्रात्मकमस्मदीयम्. २. 'सक्तैः' इति पाठान्तरम्,
'संसक्तैः' इति वल्लभदेवव्याख्यानं च. 'शतकेऽस्मिन्स्रग्धरावृत्तम् । आशी: सामान्या-
लंकारः सर्वत्रैव । विशेषालंकारस्तूत्प्रेक्षारूपकश्लेषादयः' इत्यपि वल्लभदेवव्याख्यानम्.