2025-12-12 15:15:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<p text="B" n="100">असौ दशशताभीपुः सहस्रांशुर्वो युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न
निर्णीयते नावधार्यते जगतामेषां मध्ये क इति । किं देवः सुरः । किं बान्धवो ज्ञाति:
स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् । किंवा आचार्यं उपदेष्टा । आहोस्विदर्यः
स्वामी महाकुलीनः । रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः । गुरुः
पूज्य: । उत किं जनकः पिता । अथ जीवितं प्राणितम् । उत बीजं कारणम् । उत
ओजो बलम् । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चेष्यत इत्याह -- सर्वा-
कारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । स-
र्वथा सर्वप्रकारैः । सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिज्ञार्थं मन्यमाना गुरुरिति (?) ।
तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न(तो)ऽपि बान्धवादिभेदैः
सर्वात्मकत्वं दर्शितम् ॥
</p>
<verse text="A" n="101">[ [^१]श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षं
विद्यामैश्वर्यमर्थं [^२]सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥
</verse>
<p text="B" n="101">श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्ध्यर्यं शतं श्लोका इत्युक्तप्रकारेण र
चिताः । सन्तीति शेषः । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासना-
त्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु
पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थक-
त्वात्तस्य पद्यमात्रेऽपि वृत्तिः । तथा चामरसिंह: –- 'पद्ये यशसि च श्लोकः' इत्यनुशिष्ट-
वान् । अत एव निर्णयसिन्धूप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागूर्ध्वं दश
पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्यु-
क्त्वावतारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वास्य लोकहितावहत्वलक्षण-
प्रयोजनान्तरं दर्शयितुमाह -- भक्त्या युक्त इत्यादिना । एतांश्च श्लोकान्यः पुरुषो भक्त्या
युक्तः सन्पठेत्स सर्वपापैर्विमुक्तः । भवतीति शेष: । एतेन स्वर्गादिफलं स लभत इति
सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति
भावः । किं चात्र लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते ।
प्राप्नोतीत्यर्थः ॥ ]
[^</p>
<trailer mark="३]">इति श्रीमदुज्जयिनीसामान्यपुत्रोदासीनभट्टसाधारणसुनुना (?) त्रिभुवनपालेन विरचिता
श्रीसूर्यशतकटीका समाप्ता ।
[^</trailer>
<footnote mark="१] ">अयं श्लोकस्त्रिभुवनपालव्याख्यायां न लभ्यते. मूलपुस्तके यज्ञेश्वरशास्त्रिव्याख्यायां
च वर्तत इति शास्त्रिव्याख्यासमेत एवात्र गृहीतः
[^२] 'सुखं' इति पाठ:
[^३]. 'इति श्रीमयूरपण्डितविरचितं सूर्यशतकं विशेषाचार्यव्याख्या च' इति पुस्तकान्तरपाठः,</footnote>
</page>
<p text="B" n="100">असौ दशशताभीपुः सहस्रांशुर्वो युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न
निर्णीयते नावधार्यते जगतामेषां मध्ये क इति । किं देवः सुरः । किं बान्धवो ज्ञाति:
स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् । किंवा आचार्यं उपदेष्टा । आहोस्विदर्यः
स्वामी महाकुलीनः । रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः । गुरुः
पूज्य: । उत किं जनकः पिता । अथ जीवितं प्राणितम् । उत बीजं कारणम् । उत
ओजो बलम् । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चेष्यत इत्याह -- सर्वा-
कारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । स-
र्वथा सर्वप्रकारैः । सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिज्ञार्थं मन्यमाना गुरुरिति (?) ।
तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न(तो)ऽपि बान्धवादिभेदैः
सर्वात्मकत्वं दर्शितम् ॥
<verse text="A" n="101">[ [^१]श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुःप्रकर्षं
विद्यामैश्वर्यमर्थं [^२]सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥
<p text="B" n="101">श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्ध्यर्यं शतं श्लोका इत्युक्तप्रकारेण र
चिताः । सन्तीति शेषः । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासना-
त्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु
पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थक-
त्वात्तस्य पद्यमात्रेऽपि वृत्तिः । तथा चामरसिंह: –- 'पद्ये यशसि च श्लोकः' इत्यनुशिष्ट-
वान् । अत एव निर्णयसिन्धूप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागूर्ध्वं दश
पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्यु-
क्त्वावतारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वास्य लोकहितावहत्वलक्षण-
प्रयोजनान्तरं दर्शयितुमाह -- भक्त्या युक्त इत्यादिना । एतांश्च श्लोकान्यः पुरुषो भक्त्या
युक्तः सन्पठेत्स सर्वपापैर्विमुक्तः । भवतीति शेष: । एतेन स्वर्गादिफलं स लभत इति
सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति
भावः । किं चात्र लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते ।
प्राप्नोतीत्यर्थः ॥ ]
[^
<trailer mark="३
श्रीसूर्यशतकटीका समाप्ता ।
[^
<footnote mark="१