This page has not been fully proofread.

सूर्यशतकम् ।
 
असौ दशशताभीपुः सहस्रांशुर्वा युष्मभ्यमभ्यर्थितं दिशतु यच्छतु । एवमित्थं न
निर्णीयते नावधार्यते जगतामेषां मध्ये क इति । किं देवः सुरः । किं बान्धवो ज्ञाति:
स्याद्भवेत् । अथ किं प्रियसुहृदिष्टमित्रम् । किंवा आचार्य उपदेष्टा । आहोस्विदर्यः
स्वामी महाकुलीनः । रक्षा त्राणम् । चक्षुर्लोचनम् । नु वितर्के । दीपः प्रदीपः । गुरुः
पूज्य: । उत किं जनकः पिता । अथ जीवितं प्राणितम् । उत बीजं कारणम् । उत
ओजो बलम् । ननु चैकतमकार्येणैव देवादीनामन्यतमा इति निश्चेष्यत इत्याह - सर्वा
कारोपकारी यतः सर्वैर्देवाद्याकारैरुपकारे रतः । अतः क इति निर्णेतुमशक्य एव । स-
र्वथा सर्वप्रकारैः । सर्वदा सर्वकालम् । केचिद्भिन्ना वा अभिज्ञार्थ मन्यमाना गुरुरिति (?) ।
तस्मान्नानात्वं सर्वव्यापकत्वं च । नानाकारं सर्वोपकारं कुर्वन्न (तो)ऽपि बान्धवादिभेदैः
 
-
 
सर्वात्मकत्वं दर्शितम् ॥
 
[ श्लोका लोकस्य भूत्यै शतमिति रचिताः श्रीमयूरेण भक्त्या
युक्तश्चैतान्पठेद्यः सकृदपि पुरुषः सर्वपापैर्विमुक्तः ।
आरोग्यं सत्कवित्वं मतिमतुलबलं कान्तिमायुः प्रकर्ष
 
विद्यामैश्वर्यमर्थ सुतमपि लभते सोऽत्र सूर्यप्रसादात् ॥ १०१ ॥
श्रीमयूरेण कविना लोकस्य जगतो भूत्यै समृद्ध्यर्ये शतं श्लोका इत्युक्तप्रकारेण र
चिताः । सन्तीति शेषः । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इत्यनुशासना-
त्संख्येयपरमपि शतमितिपदमेकवचनान्तं प्रयुज्यते । 'श्लोके षष्ठं गुरु ज्ञेयं सर्वत्र लघु
पञ्चमम्' इति श्रुतबोधाद्युक्तेर्यद्यपि श्लोकशब्दोऽनुष्टुप्छन्दोभेदे वर्तते, तथापि नानार्थक-
त्वात्तस्य पद्यमात्रेऽपि वृत्तिः । तथा चामरसिंह: – 'पद्ये यशसि च श्लोकः' इत्यनुशिष्ट-
वान् । अत एव निर्णयसिन्धूप्रथमपरिच्छेदे संक्रान्तिनिर्णये कमलाकरभट्टेन 'प्रागू दश
पूर्वतः षडवनिस्तद्वत्पराः पूर्वतः' इत्यादीनि पद्यानि 'अत्र मामकाः संग्रहश्लोकाः' इत्यु-
क्त्वावतारितानि । उपक्रान्तस्य सूर्यस्तवस्यैवमुपसंहारं कृत्वास्य लोकहितावहत्वलक्षण-
प्रयोजनान्तरं दर्शयितुमाह - भक्त्या युक्त इत्यादिना । एतांश्च श्लोकान्यः पुरुषो भक्त्या
युक्तः सन्पठेत्स सर्वपापैर्विमुक्तः । भवतीति शेष: । एतेन स्वर्गादिफलं स लभत इति
सूचितम् । सर्वपापक्षयस्य चित्तशुद्धिद्वारा मोक्षान्तफलसाधनत्वस्यान्यत्रोक्तत्वादिति
भावः । किं चात्र लोकेऽपि सूर्यप्रसादादारोग्यादिकं यद्यत्कामयते तत्तत्फलं लभते ।
प्राप्नोतीत्यर्थः ॥ ]
 
इति श्रीमदुजयिनीसामान्यपुत्रोदासीन भट्टसाधारणसुनुना (?) त्रिभुवनपालेन विरचिता
श्रीसूर्यशतकटीका समाप्ता ।
 
१. अयं श्लोकस्त्रिभुवनपालव्याख्यायां न लभ्यते. मूलपुस्तके यज्ञेश्वरशास्त्रिव्याख्यायां
च वर्तत इति शास्त्रिव्याख्यासमेत एवात्र गृहीतः २. 'सुखं' इति पाठ: ३. 'इति
श्रीमग्रूरपण्डितविरचितं सूर्यशतकं विशेषाचार्यव्याख्या च' इति पुस्तकान्तरपाठः,