This page has been fully proofread once and needs a second look.

५०
 
काव्यमाला ।
 
स ग्रहग्रामणीः सूर्यो वो युष्माकं गहनं पापमघं ग्लपयतु स्फोटयतु । उद्गाढाश्च ता

र्चिषश्च ता विलीना हृतास्ते च ते अमरनगरनगग्रावाणश्च तद्गर्भा यस्याः सा त-

थोक्ता । अमरनगरं त्रिदशवासः । नगः शैलः । अमरनगरं च तन्नगश्चेति समासः ।

क्व । अग्रे मुखे । अह्नां वासराणाम् । किं कुर्वन् । गां गौरयन् । कैः । गोगणै रश्मिस -

मूहैः । किंभूतैः । व्यञैःग्रैः । अत्ग्र्यग्रहेन्दुग्रसनगुरुभरैः अग्र्याः पौरस्त्यास्ते च ग्रहाश्चात्ग्र्य-

ग्रहाः ते चेन्दुश्चन्द्रमाश्चाग्र्यग्रहेन्दवस्तेषां ग्रसनमभिभवस्तस्य गुरुभरो महाभारो येषां

तैः । नो समग्रैरपरिपूर्णैः । बालत्वात् । उदग्रैर्बृहद्भिः । प्रत्यग्रैर्नवत्वात् । ईषदुग्रैः किं

चित्तीक्ष्णैः । बालत्वात् । एवंभूतैर्मयूखैर्गोगां गौरयन् । द्रुतसुवर्णगर्भामिव करोतीति तात्प-

र्यार्थः । इन्दोर्ग्रहणमिन्दोर्महातेजसोऽप्यभिभवप्रदर्शनार्थम् ॥
 

 
योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शंकरोऽसौ
 

मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।

इत्थं संज्ञा डवित्थादिवदमृतभुजां या यदृच्छाप्रवृत्ता-

स्तासामेकोऽभिधेयस्तदनुगुणगु[^१]णैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥
 
-
 

 
स सूर्यो वो युष्मानवतात्पातु । यास्तासां संज्ञानां एकः प्रधानमभिधेयो वाच्यः । का-

साम् । या अमृतभुजां देवानां यदृच्छानिरभिधेयं प्रवृत्ता भूताः । किमिव । डवित्था -

दिवत् डवित्थादयो यथा । डित्थो डवित्थ इत्यादयः संज्ञा जातिक्रिया दिनिमित्तमन्तरेण

यथासंकेतं वाचकत्वेन प्रवर्तन्ते यथा एता अपि संज्ञा एतेषु देवेषु निमित्तमन्तरेणैव प्र-

वर्तन्त इत्युक्तं भवति । यथैतेषु तथा रवावपि प्रवृत्ताः कदाचिद्भविष्यन्तीत्याह -- तदनु-

गुणगुणैः गुणशब्दप्रवृत्तिनिमित्तास्तदनुगुणाः संज्ञानुकूला ये गुणास्तैः कृत्वा । एतदुक्तं

भवति —- तासां संज्ञानां यानि यानि प्रवृत्तिनिमित्तानि तैरेव निमित्तैर्भीभास्वन्तमभिदधते

न ब्रह्मादिवद्यदृच्छमिति । कास्ता: संज्ञा: । योनिः साम्नां विधाता । योनिः प्रभवः ।

साम्नां सामवेदस्य । विधाता वेधाः । तथा मधुरिपुर्विष्णुरजित इति । धूर्जटिर्महादेवः

शंकर इति । मृत्युरन्तकः काल इति । अलकायाः पतिः कुबेरो धनद इति । जात-

वेदा वह्निः पावक इति । एतासां हि संज्ञानां यथाक्रमं सामवेदकारणत्वं
 
........
कलनक्रिया हेतुत्वं धनकर्ट (दातृ) त्वं पावनक्रियाकर्तृत्वं प्रवृत्तिनिमित्तम् । तत्तु भास्व-

त्येव न तेषु ॥
 

 
देवः किं बान्धवः स्यात्प्रियसुहृदथवाचार्य आहोस्विदेद[^२]र्यो

रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।
 

एवं निर्णीयते यः क इव न जगतां [^३]सर्वथा [^४]सर्वदासौ
 

सर्वाकारोपकारी दिशतु दशशताभीपुरभ्यर्थितं वः ॥ १०० ॥

 
[^
.] 'गणैः' इति पाठः.
[^
.] 'आर्यः' इति पाठ:.
[^
.] 'सर्वदा' इति पाठः .
[^
.] 'सर्वदः'
इति पाठ:.