This page has not been fully proofread.

५०
 
काव्यमाला ।
 
स ग्रहग्रामणीः सूर्यो वो युष्माकं गहनं पापमघं ग्लपयतु स्फोटयतु । उद्गाढाश्च ता
अचिषश्च ता विलीना हृतास्ते च ते अमरनगरनगग्रावाणश्च तद्गर्भा यस्याः सा त-
थोक्ता । अमरनगरं त्रिदशवासः । नगः शैलः । अमरनगरं च तन्नगश्चेति समासः ।
क्व । अग्रे मुखे । अह्नां वासराणाम् । किं कुर्वन् । गां गौरयन् । कैः । गोगणै रश्मिस -
मूहैः । किंभूतैः । व्यञैः । अत्र्यग्रहेन्दुग्रसनगुरुभरैः अग्र्याः पौरस्त्यास्ते च ग्रहाश्चात्र्य-
ग्रहाः ते चेन्दुश्चन्द्रमाश्चाग्र्यग्रहेन्दवस्तेषां ग्रसनमभिभवस्तस्य गुरुभरो महाभारो येषां
तैः । नो समग्रैरपरिपूर्णैः । बालत्वात् । उदग्रैबृहद्भिः । प्रत्यग्रैर्नवत्वात् । ईषदुग्रैः किं
चित्तीक्ष्णैः । बालत्वात् । एवंभूतैर्मयूखैर्गो गौरयन् । द्रुतसुवर्णगर्भामिव करोतीति तात्प-
र्यार्थः । इन्दोर्ग्रहणमिन्दोर्महातेजसोऽप्यभिभवप्रदर्शनार्थम् ॥
 
योनिः साम्नां विधाता मधुरिपुरजितो धूर्जटिः शंकरोऽसौ
 
मृत्युः कालोऽलकायाः पतिरपि धनदः पावको जातवेदाः ।
इत्थं संज्ञा डवित्थादिवदमृतभुजां या यहच्छाप्रवृत्ता-
स्तासामेकोऽभिधेयस्तदनुगुणगुणैर्यः स सूर्योऽवताद्वः ॥ ९९ ॥
 
-
 
स सूर्यो वो युष्मानवतात्पातु । यास्तासां संज्ञानां एकः प्रधानमभिधेयो वाच्यः । का-
साम् । या अमृतभुजां देवानां यदृच्छानिरभिधेयं प्रवृत्ता भूताः । किमिव । डवित्था -
दिवत् डवित्थादयो यथा । डित्थो डवित्थ इत्यादयः संज्ञा जातिक्रिया दिनिमित्तमन्तरेण
यथासंकेतं वाचकत्वेन प्रवर्तन्ते यथा एता अपि संज्ञा एतेषु देवेषु निमित्तमन्तरेणैव प्र-
वर्तन्त इत्युक्तं भवति । यथै तथा रवावपि प्रवृत्ताः कदाचिद्भविष्यन्तीत्याह - तदनु-
गुणगुणैः गुणशब्दप्रवृत्तिनिमित्तास्तदनुगुणाः संज्ञानुकूला ये गुणास्तैः कृत्वा । एतदुक्तं
भवति — तासां संज्ञानां यानि यानि प्रवृत्तिनिमित्तानि तैरेव निमित्तैर्भीस्वन्तमभिदधते
न ब्रह्मादिवद्यदृच्छमिति । कास्ता: संज्ञा: । योनिः साम्नां विधाता । योनिः प्रभवः ।
साम्नां सामवेदस्य । विधाता वेधाः । तथा मधुरिपुर्विष्णुरजित इति । धूर्जटिर्महादेवः
शंकर इति । मृत्युरन्तकः काल इति । अलकायाः पतिः कुबेरो धनद इति । जात-
वेदा वह्निः पावक इति । एतासां हि संज्ञानां यथाक्रमं सामवेदकारणत्वं
 
कलनक्रिया हेतुत्वं धनकर्ट (दात) त्वं पावनक्रियाकर्तृत्वं प्रवृत्तिनिमित्तम् । तत्तु भास्व-
त्येव न तेषु ॥
 
देवः किं बान्धवः स्यात्प्रियसुहृदथवाचार्य आहोस्विदेर्यो
रक्षा चक्षुर्नु दीपो गुरुरुत जनको जीवितं बीजमोजः ।
 
एवं निर्णीयते यः क इव न जगतां सर्वथा सर्वदासौ
 
• सर्वाकारोपकारी दिशतु दशशताभीपुरभ्यर्थितं वः ॥ १०० ॥
१. 'गणैः' इति पाठः. २. 'आर्यः' इति पाठ:. ३. 'सर्वदा' इति पाठः . ४. 'सर्वदः'
इति पाठ:.