2025-12-12 15:15:12 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<verse text="A" n="96">एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी-
दप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।
यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेव
त्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ॥
</verse>
<p text="B" n="96">असौ रविर्भास्वान्वोऽवतु । किंभूतः । सर्गतुल्योदयः सृष्टिसमानोदयः । यद्वियोगाद्य-
द्विरहादेतत्रैलोक्यमिदं त्रिभुवनं निशि निशि रात्रौ रात्रौ तादृगेव जायते यादृशं सृष्टे:
पुरस्तात्पूर्वमासीदस्ति स्म । किंभूतम् । पातालपङ्कप्लुतमिव । पातालमधः पङ्कः कर्दम-
स्तत्र प्लुतं मग्नमिव । केन । तमसा । एकमद्वितीयम् । उद्गाढं प्रबलम् । अप्रज्ञाताप्रत-
र्क्यम् । न प्रज्ञायते स्माप्रज्ञातो बोद्धव्यप्रतीत्यविषयः । अप्रतर्क्यस्तर्कयितुमशक्यः ।
अप्रज्ञातं चाप्रतर्क्यं च तदेवंविधम् । सुप्तमन्तस्ततश्च निरवगति प्रत्यक्षस्याविषयम् ।
तथा अलक्षणं लक्षणस्याविषयम् । सांप्रतमप्येवंभूतमेव भवति ॥
</p>
<verse text="A" n="97">द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि-
र्या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सः ।
यद्वश्यौ देशकालाविति नियमयतो नो तु[^१] यं देशकाला-
वव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरह्नामिनो वः ॥ ९७ ॥
</verse>
<p text="B" n="97">सोऽह्नां दिनानां हेतुः कारणमिनोऽर्को वोऽव्यात् । कीदृशोऽसौ । स्वप्रभुत्वाहितभु-
वनहितः । स्वं च तत्प्रभुत्वं च तेनाहितं कृतं भुवनहितं लोकपथ्यं येन स तथोक्तः । नो
तु पुनर्यमिनं देशकालौ नियमयतः इनस्य नियामकौ न भवतः । कथंभूतौ । यद्वश्यौ यद-
धीनौ । देशकालौ प्रदेशसमयौ । देश: पूर्वादिदिग्विशेषः । कालः समयः प्रभातादिः ।
अस्मिन्द्वीपे योऽस्ताचलोऽस्तपर्वतः स खल्वपरत्र द्वीपान्तरे उदयाद्रिरुदयाचलः । अ-
न्यत् । इह देशे या निर्मलचन्द्रकान्ती रात्रिः सोऽन्यत्र दुःसहातपो दिवसः । यदा किल
सहस्रकिरणो भगवान्मेरोर्दक्षिणस्यामुदेति तदा मेरोरुत्तरस्यामस्तमेति । मेरोः पूर्वस्यां
मध्यदिनं पश्चिमायां मध्यरात्रं च । अतो हेतोः पूर्वादिदेशः पूर्वादिसंध्याकालः एतो
यस्य रवेर्वश्यौ भवतः न तु रविरेतयोर्देशकालयोर्वश्यः । एतेन सूर्यचक्रभ्रमात् पृथ-
क्पृथग्देशकालनिर्माणं गणितशास्त्रे प्रसिद्धमस्तीति भावः ॥
</p>
<verse text="A" n="98">व्यग्रैरग्र्यग्रहेन्दुग्रसन[^२]गुरु भरैर्नो समग्रैरुदग्रैः
प्रत्यग्रैरीषदुग्रैरुदयगिरिगतो गोगणैर्गौरयन्गाम् ।
उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्ना-
मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥
[^</verse>
<footnote mark="१] ">'नु' इति पाठ:.
[^२] 'गुरुतरै: ' इति पाठः.</footnote>
</page>

[^
<footnote mark="१
[^२] 'गुरुतरै: ' इति पाठः.</footnote>
</page>