This page has been fully proofread once and needs a second look.

४९
 
सूर्यशतकम् ।
 
एतत्पातालपङ्कप्लुतमिव तमसैवैकमुद्गाढमासी-

दप्रज्ञाताप्रतर्क्यं निरवगति तथालक्षणं सुप्तमन्तः ।

यादृक्सृष्टेः पुरस्तान्निशि निशि सकलं जायते तादृगेव

त्रैलोक्यं यद्वियोगादवतु रविरसौ सर्गतुल्योदयो वः ॥ ९६ ॥

 
असौ रविर्भास्वान्वोऽवतु । किंभूतः । सर्गतुल्योदयः सृष्टिसमानोदयः । यद्वियोगाद्य-

द्विरहादेतत्रैलोक्यमिदं त्रिभुवनं निशि निशि रात्रौ रात्रौ तादृगेव जायते यादृशं सृष्टे:

पुरस्तात्पूर्वमासीदस्ति स्म । किंभूतम् । पातालपङ्कद्भुप्लुतमिव । पातालमधः पङ्कः कर्दम-

स्तत्र प्लुतं मग्नमिव । केन । तमसा । एकमद्वितीयम् । उद्गाढं प्रबलम् । अप्रज्ञाताप्रत-

र्क्यम् । न प्रज्ञायते स्माप्रज्ञातो बोद्धव्यप्रतीत्यविषयः । अप्रतर्क्यस्तर्कयितुमशक्यः ।

अप्रज्ञातं चाप्रतर्क्यं च तदेवंविधम् । सुप्तमन्तस्ततश्च निरवगति प्रत्यक्षस्याविषयम् ।

तथा अलक्षणं लक्षणस्याविषयम् । सांप्रतमप्येवंभूतमेव भवति ॥

 
द्वीपे योऽस्ताचलोऽस्मिन्भवति खलु स एवापरत्रोदयाद्रि-

र्या यामिन्युज्ज्वलेन्दुद्युतिरिह दिवसोऽन्यत्र तीव्रातपः सः ।

यद्वश्यौ देशकालाविति नियमयतो नो तु[^१] यं देशकाला-

वव्यात्स स्वप्रभुत्वाहितभुवनहितो हेतुरहाह्नामिनो वः ॥ ९७ ॥

 
सोऽह्नां दिनानां हेतुः कारणमिनोऽर्को वोऽव्यात् । कीदृशोऽसौ । स्वप्रभुत्वाहित भु
-
वनहितः । स्वं च तत्प्रभुत्वं च तेनाहितं कृतं भुवनहितं लोकपथ्यं येन स तथोक्तः । नो

तु पुनर्य॑मिनं देशकालौ नियमयतः इनस्य नियामकौ न भवतः । कथंभूतौ । यद्वश्यौ यद-

धीनौ । देशकालौ प्रदेशसमयौ । देश: पूर्वादिदिग्विशेषः । कालः समयः प्रभातादिः ।

अस्मिन्द्वीपे योऽस्ताचलोऽस्तपर्वतः स खल्वपरत्र द्वीपान्तरे उदयाद्रिरुदयाचलः । अ-

न्यत् । इह देशे या निर्मलचन्द्रकान्ती रात्रिः सोऽन्यत्र दुःसहातपो दिवसः । यदा किल

सहस्रकिरणो भगवान्मेरोर्दक्षिणस्यामुदेति तदा मेरोरुत्तरस्यामस्तमेति । मेरोः पूर्वस्यां

मध्यदिनं पश्चिमायां मध्यरात्रं च । अतो हेतोः पूर्वादिदेशः पूर्वादिसंध्याकालः एतो

यस्य रवेर्वश्यौ भवतः न तु रविरेतयोर्देशकालयोर्वश्यः । एतेन सूर्यचक्रभ्रमात् पृथ-

क्पृथग्देशकालनिर्माणं गणितशास्त्रे प्रसिद्धमस्तीति भावः ॥

 
व्यग्रैरग्र्यग्रहेन्दुग्रसन[^२]गुरु भरैर्नो समग्रैरुदग्रैः

प्रत्यग्रैरीषदुप्ग्रैरुदयगिरिगतो गोगणैर्गौरयन्गाम् ।

उद्गाढार्चिर्विलीनामरनगरनगग्रावगर्भामिवाह्ना-

मग्रे श्रेयो विधत्ते ग्लपयतु गहनं स ग्रहग्रामणीर्वः ॥ ९८ ॥

 
[^
.] 'नु' इति पाठ:.
[^
.] 'गुरुतरै: ' इति पाठः.