2023-02-23 18:32:35 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
शोभमानानि चत्वार्याशामुखानि दिग्वदनानि यत्रोदिते सति स तथोक्तः । अन्यत्र
चतस्र आशा इव महत्वान्मुखान्याननानि यस्य स तथाभूतः ॥
. साद्रिचूर्वीनदीशा दिशति दश दिशो दर्शयन्प्राक्दृशो यः
सादृश्यं दृश्यते नो सदशशतदृशि त्रैदशे यस्य देशे ।
दीप्तांशुवः स दिश्यादशिवयुगदशादर्शितद्वादशात्मा
शंशास्त्यश्वांश्च यस्याशयविदतिशयाद्दन्दशूकाशनाद्यः ॥ ९४ ॥
दीप्तांशुः सूर्यो वो युष्मभ्यं शं सुखं दिश्याद्यच्छतु । यस्याश्वाञ्शास्ति नियमयति ।
कः । दन्दशूकाशनाद्यः । दन्दशूकाः सर्पास्तदशनो गरुडस्तस्याद्यो ज्येष्ठः प्रथमोऽरुणः ।
आशयविदभिप्रायज्ञः । अतिशयाद्विशेषतः । कीदृशो दीप्तांशुः । अशिवयुगदशादर्शितद्वा-
दशात्मा अशिवयुगं क्षयसमयस्तत्र दशा तथा दर्शिता द्वादशात्मानो येन सः । यो दृशो
दिशति चक्षूंषि ददाति । दशदिशो दर्शयन्दशाशाः प्रकाशयन् । किंभूताः । साद्रिचूर्वी.
नदीशाः । अद्रयः पर्वताः द्यौर्नभः उर्वी पृथ्वी नदीशा: समुद्राः । अद्रयश्चेति संबन्धः ।
तैः सह वर्तन्त इति ता: तुल्ययोग इति पुनर्बहुव्रीहिः । प्राक् प्राचीम् । किं च, यस्य सा-
दृश्यं नो दृश्यते तुल्यत्वं नोपलभ्यते । त्रैदशे देशे देवानां स्थाने स्वर्गे । सह दशशत-
दृशा शक्रेण वर्तत इति [तस्मिन् ] देशे ॥
तीर्थानि व्यर्थकानि हृदनदसरसीनिर्झराम्भोजिनीनां
नोदन्वन्तो नुदन्ति प्रतिभयमशुभं श्वभ्रपातानुबन्धि ।
आपो नाकापगाया अपि कलुषमुषो मज्जतां नैव यत्र
त्रातुं यातेऽन्यलोकान्स दिशतु दिवसस्यैकहेतुर्हितं वः ॥ ९९ ॥
स दिवसस्यैकहेतुर्दिनस्य प्रधानकारणं भानुर्वी युष्मभ्यं दिशतु यच्छतु । किं तत् ।
हितं पथ्यम् । यत्रान्यलोकानपरजगन्ति त्रातुं पातुं याते गते सति तीर्थानि पुण्यस्था-
नानि व्यर्थकानि जायन्ते । अकिंचित्करत्वात् । भास्वत्युदिते सति फलं दातुं समर्थानि
तत्सेवकानाम् । न तद्विरहे । कासां संबन्धितीर्थानि । हृदनदसरसोनिर्झराम्भोजिनी-
नाम् । हृदा अगाधा जलाशयाः । नदाः शोणादयः । सरस्यो महासरांसि । निर्झराः
प्रस्रवाः । अम्भोजिन्यः पुष्करिण्यः । हृदाश्च नदाश्चेति समासः । अपि च, उदन्वन्तः
समुद्रा न प्रतिभयं नुदन्ति न पापमपनयन्ति । प्रतिशब्देनात्र पापं विवक्षितम् । अ-
शुभश्वभ्रपातानुबन्धि । भश्वभ्रं नरकः । श्वभ्रमिव सः । अधोगतिहेतुत्वात् । तत्र
पातस्तदनुभवकारणम् । नाकापगाया अप्यापो जलानि कलुषमुषो नैव पापापहा न । ए-
तानि सर्वाणि तीर्थानि भानुमताधिष्ठितानि स्वकार्यक्षमाणि भवन्तीति वाक्यार्थः । के-
षाम् । मज्जतां स्नानं कुर्वताम् ॥
१. 'द्राक्' इति पाठः. २. 'स्वर्गापगायाः' इति पाठ:. ३. 'लोकं' इति पाठः.
-