This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
 
सप्ताश्वाप्तापरान्तान्यधिकमधरयन्यो जगन्ति स्तुतोऽलं

देवैर्देवः स पायादपर इव मुरारातिरां पतिरह्नां पतिर्वः ॥ ९२ ॥
 
४७
 
.

 
अह्नां पतिरादित्यो वो युष्मान्पायात् । योऽपर इव मुरारातिर्द्वितीय इव मुरारिः ।

कीदृशो मुरारातिः कीदृशश्वाहांचाह्नां पतिस्तदुच्यते –- मुरारिपक्षे प्राक्काले पूर्वकाले उन्निद्रा

जागरिता सावधाना पद्मा श्रीस्तस्याः करौ हस्तौ ताभ्यां परिमलनं हस्तसंवाहनं तेना-

विर्भवन्ती प्रादुर्भवन्ती पादयोः शोभा कान्तिर्यस्य मुरारे: स तथोक्तः । कीदृशोऽहर्पतिः ।

प्राक्काले पूर्वीवाह्णे उन्निद्रा विकसिता ये पद्माकरास्तेषां परिमलनमवगाहनं तेनाविर्भवन्ती

पादानां किरणानां शोभा यस्य सः । किं च, विनतासूनुनारुणेन नीयमान उह्यमानः ।

क्व । दिवि गगने । भक्त्या भावेन । [^१]त्यक्तोरुखेदोद्गति व्यक्त (बृहत् ) जङ्घाखेदोदयं यथा

भवति । किं कुर्वन्स्तुत: । अधरयँल्लङ्घयन् । जगन्ति भुवनानि । मुरारिपक्षे तु जगन्ति

कति । सप्त । आशु शीघ्रम् । आप्तापरान्तानि प्राप्तपरपाराणि । रविपक्षे तु -- सप्ताश्वाप्ता-

परान्तानि सप्तभिरश्वैराप्तापरान्तानि आश्रितपश्चिमाशापर्यन्तानि ॥
 

 
यः स्रष्टापां पुरस्तादचलवरसमभ्युन्नतेर्हेतुरेको
 

लोकानां यस्त्रयाणां स्थित उपरि परं दुर्विलङ्घ्येन धाम्ना ।

सद्यः सिद्ध्यै प्रसन्नद्युति[^२]शुभचतुराशामुखः स्ताद्विभक्तो
 

द्वेधा वेधा इवाविष्कृतकमलरुचिः सोऽर्चिषामाकरो वः ॥ ९३ ॥

 
सोऽचिषामाकरो निधानं खनिर्वा सूर्यः सिद्ध्यै सिद्ध्यर्थं वो युष्माकं स्ताद्भूयात् । सद्यः

सपदि । क इव । वेधा इव ब्रह्मेव । किंविशिष्टः । विभक्तः । कथम् । द्वेधा । कीदृशश्च

सूर्यः कीदृशो ब्रह्मा तदेव दर्श्यते –- योऽपां पयसां पुरस्तात्पूर्वं स्रष्टा विधाता कर्ता । वैवेधा

हि पूर्वेवं पयः सृजतीत्यागमविदः । सूर्योऽपि प्रागपां स्रष्टा भवति । 'आदित्याज्जायते वृष्टिः'

इति । अचलवरसमभ्युन्नतेर्हेतुरेक इति । अचलवराः कुलशैलास्तेषां समभ्युन्नतिरुच्छ्रा-

यस्तस्य हेतुः कारणम् । एकोऽद्वितीयः । रविपक्षे तु पुरस्तात्पूर्वस्यां दिशि अचलवरो

मेरु: ( उदयाद्रिः) तत्र समभ्युन्नतिरुदयस्तस्य हेतुरेक: । मेरुर्हि भगवतोदयता गौरवं नी-

यते उदयाचल इति । यस्त्रयाणां लोकानां भूर्भुवःस्वर्लक्षणानामुपर्युपरिष्टात्स्थितः । सू-

र्
योsपि त्रिलोक्या उपरि वर्तते । धाम्ना तेजसा । दुर्विलङ्घ्येनानभिभवनोयेन । वेधा तु

धाम्ना स्थानेन दुर्विलङ्घ्येन दुष्प्रापेणोपरिस्थितः । परमतीव । तथा प्रसन्नद्युतीनि शुभानि
 

 
[^
.] 'त्यक्ता उरुमेहती खेदस्य परिश्रमस्योद्गतिरुद्गमो यत्र कर्मणि यथा स्यात्तथा ।

यद्वा रथमारुह्याश्वानां नियन्त्रणादनूरुत्वाद्वा त्यक्तो विसृष्ट ऊर्वोर्जङ्घयोः खेदः परि-

श्रमो यस्यां सा तथाविधा उद्गतिरूर्ध्वगमनं यस्मिन्नयने तत्त्यक्तोरुखेदोद्गति यथा

स्यात्तथा दिवि अन्तरिक्षमार्गे नीयमानः । मुरारातिरपि विनतासूनुना गरुडेन-
-
सुरलोके नीयमान उह्यमानः' इति शास्त्रिव्याख्यानम्.
[^
.] 'शुचि' इति पाठ:.
 
-दिवि