2023-02-23 18:32:34 by ambuda-bot
This page has not been fully proofread.
काव्यमाला
येनादित्याभिधानं निरतिशयगुणैरात्मनि न्यस्तमस्तु
स्तुत्यस्त्रैलोक्य वन्द्यैस्त्रिदशमुनिगणैः सोंऽशुमाञ्श्रेयसे वः ॥ ९० ॥
सोंऽशुमान्वो युष्माकं श्रेयसे कल्याणायास्तु । किंभूतोऽसौ । स्तुत्यो वन्द्यः । कैः ।
त्रिदशमुनिगणैः सुरषिसंघैः । किंभूतैः । त्रैलोक्यवन्यैत्रिभुवननमस्करणीयैः । येनांशु-
मता आदित्याभिधानमादित्यसंज्ञा आत्मनि स्वस्मिन्विषये न्यस्तमारोपिता । मध्ये वा-
सवाग्रेसराणां शक्रप्रभृतीनाम् । देवानां प्रायेणादित्यसंज्ञा । अदितैर्देवमातुरात्मजत्वे स-
मेऽपि सत्यविशेषेऽपि सति । तर्हि ते तेजस्विनो न भविष्यन्ति । किंभूतानां तेषाम् ।
नाकौकः प्रत्यनीकक्षतिपटुमहसां देवप्रतिपन्थिक्षयकल्पतेजसाम् । तर्हि जगन्ति वि-
श्वानि'
..साधु सम्यक्पातां रक्षतां सताम् । किं तत् । जगद्भुवन मिदम् । एतदुक्तं
भवति – यद्यप्यदितेरपत्यमिति व्युत्पत्तिः सर्वेषामप्यस्ति । तन्निमित्तस्यादित्य (त्व) स्य
साधारणत्वात् । तथापि भगवानेवादित्य इति लोकप्रसिद्धिः । सूर्यस्यापि हेतुर्दशिंतो नि-
रतिशयगुणैरिति ॥
भूमिं धाम्नोऽभिवृष्ट्या जगति जलमयीं पावनीं संस्मृताव-
प्याग्नेयीं दाहशक्त्या मुहुरपि यजमानां यथाप्रार्थितार्यैः ।
लीनामाकाश एवामृतकरघटितां ध्वान्तपक्षस्य पर्व-
ण्येवं सूर्योऽष्टभेदां भव इव भवतः पातु बिभ्रत्स्वमूर्तिम् ॥ ९१ ॥
सूर्योऽक भवतो युष्मान्रक्षतु । किं कुर्वन् । बिधत् । काम् । स्वमूर्तिम् । अष्ट-
भेदामष्टप्रकाराम् । क इव । भव इव भगवान्महेश्वरो यथा । 'क्षितिजलपवन हुताशन-
यजमानाकाशसोमसूर्याख्या:' अष्टमूर्तयः । सूर्ये ता दर्शयितुमाह - किंभूतः । भूमिं
निधानम् । कस्य । धाम्नस्तेजसः । किं च, जलमयीं जलप्रायाम् । अभिवृष्ट्याभिवर्ष-
णेन । जगति लोके । किं च, पावनीं वायुमयीम् । (जनानां भक्तानाम्) । तथाग्नेयी-
मग्निमयीम् । दाहशत्तया दाहसामर्थ्येन । मुहुः पुनःपुनर्यजमानां याजकमयीम् । यथा-
प्रार्थितार्थैः । तथाकाशे लीनां संबद्धाम् । अमृतकरघटितां चन्द्रेण संगताम् । क ।
ध्वान्तपक्षस्य पर्वण्यमावास्यायाम् । तत्र हि सूर्याचन्द्रमसौ संगच्छेते । एवमुक्तया
नीत्या सूर्यः स्वयमेवाष्टमूर्ति: श्रीमहादेवतुल्य इति ॥
प्राक्वालोन्निद्रपद्माकरपरिमलनाविर्भवत्पादशोभो
भक्त्या त्यक्तोरुखेदोद्गति दिवि विनतासूनुना नीयमानः ।
१. 'गुणेनात्मनि' इति पाठ:. २. 'धान्नोऽथ' इति पाठ:. ३. 'यजमानात्मिकां प्रा-
थितार्थैः' इति पाठः. प्रार्थितार्था याचकास्तैर्ज्ञापक भूतैर्यजमानात्मिकामिति तदर्थः.
४. 'तथा संस्मृतौ स्मरणेऽपि कृते सति पावनीं शुद्धिकरीम् । एतेन पवनस्य वायो-
रिमां पावनीमिति श्लेषमहिम्ना वायुस्वरूपिणीमिति सूचितम्' इति शास्त्रिव्याख्यानम्.