This page has been fully proofread once and needs a second look.

सूर्यशतकम् ।
कैलासे कृत्तिवासा विहरति विरहत्रासदेहोढकान्तः

श्रान्तः शेते महाहावधिजलधि विना छद्मना पद्मनाभः ।

योगोद्योगैकतानो गमयति सकलं वासरं स्व स्वयंभू
 
-
र्भूरित्रैलोक्यचिन्ताभृति भुवनविभौ यत्र भास्वान्स वोऽव्यात् ॥ ८८ ॥
 
४५
 

 
स भास्वान्वोऽव्यात् । यत्र भास्वति भुवनविभौ लोकपाले त्रैलोक्यचिन्ताभृति ब

हुजगच्चिन्ताधारे सति ब्रह्मादीनां चिन्ता नास्ति । एतदेव दर्शयति —- कृत्तिवासा महा-

देवः कैलासे भूरिगिरौ (?) विहरति क्रीडते । विरहत्रासदेहोढकान्तः वियोगभयाद्देहे

धृता प्रिया पार्वती येन सः । श्रान्तः खिन्नः । शेते स्वपिति । महाहौ महोरगे । अधि-

जलधि पयोधौ । विना छद्मनाव्याजेन । योगस्तापादिच्छलं विना (?) । पद्मनाभो ना-

रायणः । किं च, स्वयंभूर्ब्रह्मा स्वमात्मीयं वासरं दिवसं गमयति यापयति । योगोद्योगै-

कतानः । योगश्चित्त[वृत्ति]निरोधस्तत्रोद्योग उद्यमस्तत्रैकतान एकाग्रः । सकलं
.

निरवशेषम् । एते भुवनपतयो नाम[मात्रेण] स्वकार्येकनिष्ठास्तिष्ठन्ति, अयं तु भगवा-

न्कर्मणि कृतपरिकर इति दर्शितम् ॥
 

 

 
एतद्यन्मण्डलं खे तपति दिनकृतस्ता ऋचोऽर्चींषि यानि

द्योतन्ते तानि सामान्ययमपि पुरुषो मण्डलेणुर्यजूंषि ।

एवं यं वेद वेदत्रितयमयमयं वेदवेदी समग्रो
 

वर्गः स्वर्गापवर्गप्रकृतिरविकृतिः सोऽस्तु सूर्यः श्रिये वः ॥ ८९
 

 
स सूर्यो वो युष्माकं श्रिये स्तादस्तु । कीदृशः । स्वर्गापवर्गप्रकृतिः संसारनिर्वाण-

स्वभावः कारणम् । स्वयमविकृतिर्विकाररहितः । यं सूर्यमयं वर्ग एष गणो वेदवेदी वेद-

वेत्ता मण्डलाचिः पुरुषलसमान (?) ज्योतिरिति शेषः । एवं वेद जानाति । कथंभूतम् ।

वेदत्रितयमयं त्रिवेदीप्रकृतिकम् । तथा च 'त्रयी वा एषा विद्या तपति' इति

श्रुतिः । तन्मयम् । कथमेवम् । इत्थंभूतं देवं यं वेद । यदैतन्मण्डलं दिनकृत आदित्यस्य

संबन्धि खे तपति ता ऋचः स ऋग्वेदः । 'ता ऋचः स ऋचां लोकः' इति श्रुतिः ।

यान्यर्चींषि दीप्तयो द्योतन्ते भासन्ते तानि सामानि सामवेदः । 'यदेतदर्चिर्दीप्यिते तन्म-

हाव्रतं तानि सामानि स साम्नां लोकः' इति श्रुतिः । अयमपि मण्डले पुरुष आत्माणुः

सूक्ष्मो योगगम्यस्तानि यजूंषि स यजुर्वेदः । 'य एष एतस्मिन्मण्डले पुरुषः सोऽग्निस्तानि

यजूंषि स यजुषां लोकः' इति श्रुतिः । एतेन वेदत्रितयमयत्वं कथितम् ॥
 

 
नाकौकः प्रत्यनीकक्षतिपटुमहसां वासवाग्रेसराणां
 

सर्वेषां साधु पातां जगदिदमदितेरात्मजत्वे समेऽपि ।
 
}